प्रथमोऽध्यायः ।
अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः||१||
अन्वयः अथ अतः दीर्घञ्जीवितीयम् अध्यायम् व्याख्यास्यामः ।
“अथ” इस मंगल शब्द के बाद अब “दीर्घञ्जीवितीय” अध्याय की व्याख्या करेंगे ।।१ ।।
आयुर्वेददीपिका -गुणत्रयविभेदेन मूर्तित्रयमुपेयुषे । त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः ॥१ ॥ सरस्वत्यै नमो यस्याः प्रसादात् पुण्यकर्मभिः । बुद्धिदर्पणसंक्रान्तं जगदध्यक्षमीक्ष्यते ॥२ ॥ ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसु-हुताशवेशचरकप्रभृतिभ्यो नमो नमः ॥३ ॥ पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः । मनोवाक्कायदोषाणां हत्रे ऽहिपतये नमः ॥४ ॥ नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी । क्रियते चक्रदत्तेन टीकाऽ ऽयुर्वेददीपिका ॥५ ॥ सभ्याः सदुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीनस्मि वो, नालं तोषयितुं पयोदपयसा नाम्भोनिधिस्तृप्यति । व्याख्याभासरसप्रकाशनमिदं त्वस्मिन् यदि प्राप्यते, क्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं धीयताम् ॥६ ॥
अन्वयः – गुणत्रयविभेदेन मूर्तित्रयम् उपेयुषे त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः ॥१ ॥ यस्याः प्रसादात् पुण्यकर्मभिः बुद्धिदर्पणसंक्रान्तं जगदध्यक्षम् ईक्ष्यते, (तस्यै) सरस्वत्यै नमः ॥२ ॥ ब्रह्मदक्षाश्विदेवेश – भरद्वाज-पुनर्वसु हुताशवेशचरकप्रभृतिभ्यः नमः नमः ॥३ ॥ पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः मनोवाक्कायदोषाणाम् हर्ने अहिपतये नमः ॥४ ॥ चक्रदत्तेन नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी आयुर्वेददीपिका टीका क्रियते ॥५ ॥ सभ्याः ! सद्गुरुवाक्सुधास्तुतिपरिस्फीतश्रुतीन् वः तोषयितुम् (अहम्) अलम्न अस्मि। अम्भोनिधिः, पयोदपयसा न तृप्यति। इदम् व्याख्याभासरसप्रकाशनम्, यदि अस्मिन् क्व अपि क्व अपि गुणस्य कणः प्राप्यते तत् असौ (कणः) कर्णे क्षणं धीयताम् ॥६ ॥
एषणा – सत्त्व, रजः और तमः इन तीन गुणों के भेद (विभाग) से मूर्तित्रय (ब्रह्मा, विष्णु और महेश) रूप को प्राप्त, तीनों लोकों (भू-लोक, भुवर्लोक और स्वर्लोक या आकाश, पाताल और पृथ्वीलोक) में होने वाले या उनके उत्पादक या वेदत्रयी के उद्भावक त्रिनेत्र वाले (त्र्यम्बक), त्रिलोकी के स्वामी (शंकर जी) को मेरा नमस्कार है ॥१ ॥ जिसकी कृपा से पुण्यकर्मा लोगों द्वारा बुद्धिरूपी दर्पण में सङ्क्रान्त (सङ्क्रमित) संसार के अधिष्ठाता (प्रधान पुरुष) को साक्षात् रूप में देखा जाता है, उस सरस्वती को (मेरा) प्रणाम (है) ॥२॥ ब्रह्मा, दक्ष (प्रजापति), अश्विनीकुमार, इन्द्र, भरद्वाज, पुनर्वसु आत्रेय, अग्निवेश और चरक आदि (आयुर्वेद -परम्परा के) आचार्यों को पुनः पुनः (मेरा) नमस्कार (है) ।॥ ३ ॥ मन, वाणी तथा शरीर के दोषों को पातञ्जल योगदर्शन, पातञ्जल महाभाष्य तथा चरक के प्रतिसंस्कृतस्वरूप (चरक संहिता) के द्वारा हरण करने वाले अहिपति (शेषनाग) को (मेरा) नमस्कार (है) ।।।४ ॥
चक्रदत्त नरदत्त गुरु के द्वारा उपदिष्ट (निर्दिष्ट) चरकसंहिता के अर्थ का अनुसरण करने वाली आयुर्वेददीपिका टीका को करते हैं।।५।।
हे सभ्यजन। श्रेष्ठ गुरुओं की वाणीरूपी पीयूष-धारा से पर्याप्त समृद्ध श्रुति वाले आपको मैं पर्याप्त संतुष्ट करने में समर्थ नहीं हूँ। अम्भोद (मेघ) के जल से सागर तृप्त नहीं होता है। यह तो व्याख्या के आभास के रस का प्रकाशन मात्र है। यदि इसमें कहीं कहीं भी गुण का कोई कण प्राप्त होता है तो इसे क्षण भर कान में धारण कीजिये ।।॥६ ॥
टिप्पणी – (१) आचार्य चक्रपाणिदत्त के प्रस्तुत मङ्गलाचरण श्लोक का समभावी मङ्गलाचरण श्लोक
बाणभट्ट विरचित कादम्बरी में दृष्टव्य है-
रजोजुषे जन्मनि सत्त्ववृत्तये स्थितौ प्रजानां प्रलये तमः स्पृशे ।
अजाय सर्गस्थितिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नमः ॥१ ॥
२) गुणत्रयविभेदेन – त्रयोऽवयवा अस्य इति त्रयम्। गुणानां त्रयं गुणत्रयं तस्य विशिष्टो विभेदः गुणत्रयविभेदः,
तेन गुणत्रयविभेदेन।
(३) मूर्तित्रयम् – मूर्तीनां त्रयं, मूर्तित्रयं तत्, द्वितीयैकवचने मूर्तित्रयम् ।
(४) उपेयुषे – “उपेयिवाननाश्वाननूचानश्व” (३/२/१०९) इस सूत्र से ‘उपेयिवान्’ पद निपातन से सिद्ध होता है। उपेयुषे की पद निष्पत्ति प्रक्रिया इस प्रकार है। उप उपसर्गपूर्वक ‘इण् गतौ’ धातु से भूतमात्र अर्थ में “उपेयिवाननाश्वाननूचानश्च” इस सूत्र के विकल्प से लिट् लकार, लिट् के स्थान में नित्य क्वसु आदेश हुआ, उप+इ+लिट् (क्वसु-वस्), अनुबन्ध लोप होकर’ उप इ वस्’ यह स्थिति हुई, इसमें ‘लिटि धातोरनभ्यासस्य’ (६/१/१८) से इस सूत्र से इ धातु का द्वित्व हुआ, ‘उप+इ+इ+वस् ‘दीर्घ इणः किति’ (७/४/६९) से दीर्घ, ‘उप+ई+इ+इ+वस्’, ‘वस्वेकाजाद्वसाम्’ (७/२/६७) से’ इ तथा वस्’ के मध्य में’ इट्’ का आगम, अनुबन्धलोप, ‘उप+ई+इ+इ+वस्’ ‘इ और इ’ को प्राप्त दीर्घ को बाधकर ‘इको यणचि’ (६/१/७४) से पूर्व ‘इ’ के स्थान पर य् (यण्)’, ‘उप+ई+य्+इ+वस्’ अकार और इकार को गुण, वर्णसम्मेलन, ‘उपेयिवस्’। यह प्रातिपादिक निष्पन्न होता है। इसके प्रथमा विभक्ति के एकवचन में ‘उपेयिवान्’ रूप निष्पन्न होता है। इस (उपेयिवस्) के चतुर्थी विभक्ति के एकवचन में’ डे’ प्रत्यय, अनुबन्धलोप, ‘उपेयिवस्+ए (डे),’ ‘यचि भम्’ से भसंज्ञा होने से “वसोः सम्प्रसारणम्” (६/४/१३१) से व के स्थान पर सम्प्रसारण व् को उ होने से ‘उपेयि उ अस्+ए’, ‘सम्प्रसारणाच्च’ (६/१/१०८) से पूर्वरूप होने पर (अ का पूर्वरूप होने पर) ‘उपेयि उस् ए’ हुआ, ‘वल्’ प्रत्याहार में ‘व’ ध्वनि आती है, यहाँ ‘व्’ ध्वनि का ‘उ’ सम्प्रसारण होने से वलादित्व का विघात हो गया अतः वलादिलक्षण ‘इट्’ की निवृत्ति हो गई, अर्थात् ‘य’ ध्वनि के बाद ‘इ’ ध्वनि नहीं रही, ‘उपेय् + उस्+ए’ हुआ, यहाँ वलादित्व का नाश होने से ‘अकृतव्यूहाः पाणिनीयाः’ के ‘कृतमपि कार्यं निवर्तयन्ति’ के निर्देश में इट् (य् में इ) की निवृत्ति, ‘उपेय् उस्+ए’, ‘शासिवसिघसीनां च’ (८/३/६०) सूत्र से षत्वादेश, वर्णसम्मेलन, ‘उपेयुषे’ रूप निष्पन्न होता है। द्वितीया बहुवचन में तथा पञ्चमी षष्ठी के एकवचन में ‘उपेयुषः’ तथा स्त्रीलिङ्ग में ‘उपेयुषी’ रूप होते है।
(५) त्रयीभुवे – त्रयोऽवयवाः अस्याः इति त्रयी, त्रय्यां भवति इति त्रयीभूः तच्चतुर्थेकवचने ‘ त्रयीभुवे’।
(६) त्रिलोकीपतये – त्रयाणां लोकानां समाहारः त्रिलोकी। त्रिलोक्याः पतिः त्रिलोकीपतिः। तच्चतुर्येकवचने ‘त्रिलोकीपतये’ इति रूपम्।
(७) त्रिनेत्राय – त्रीणि नेत्राणि यस्य सः त्रिनेत्रः। तच्चतुर्थेकवचने ‘त्रिनेत्राय’।
(८) पुण्यकर्मभिः – पुण्यानि कर्माणि येषां, ते पुण्यकर्माणः तत्तृतीयाबहुवचने पुण्यकर्मभिः इति रूपम् ।
(९) बुद्धिदर्पणसङ्क्रान्तम् बुद्धिः एव दर्पणः (दृप्+णिच्+ल्युट्+सु) तत्र सङ्क्रान्तं बुद्धिदर्पणसङ्क्रान्तम्।
(१०) जगत् – (गम्+क्विप्, द्वित्व, तुगागमः), जङ्गम, संसार।
(११) अध्यक्षम् – अधिगतः अक्षम् इन्द्रियम् इति अध्यक्षः, तम्, प्रादि समास अध्यक्ष्णोति व्याप्नोति इति वा अध्यक्षः तम् (अधि+अक्ष+अच्), अधिष्ठाता, निरीक्षक, मुख्य व प्रधान, प्रत्यक्ष ।
(१२) ईक्ष्यते – ईक्ष धातु से कर्म में लट् लकार के प्रथम पुरुषैकवचन में ईक्ष्यते रूप निष्पन्न होता है।
ईश्+यक्+ (य)+लट् (त) ईक्ष्यते ।
(१३) पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः पातञ्जलं च महाभाष्यं च चरकप्रतिसंस्कृतञ्च पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतानि, तत् तृतीयाबहुवचने पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः ।
(१४) मनोवाक्कायदोषाणाम् मनश्च वाक् च कायश्च मनोवाक्कायाः तेषां दोषाः मनोवाक्कायदोषाः
तेषां मनोवाक्कायदोषाणाम्।
(१५) हर्ने – हरतीति हर्ता, तच्चतुर्थेकवचने “हत्रे” इति पदम् । ह+तृच् (तृ)+डे (ए) हर्ने।
(१६) अहिपतये: अहीनां पतिः, अहिपतिः, तच्चतुर्येकवचने “ अहिपतये” इति रूपम् ।
(१७) क्रियते – डुकृञ् करणे धातु से कर्म में लट् लकार, प्रथमपुरुषैकवचन में ‘क्रियते’ रूप निष्पन्न होता है। कृ+यक् (य) लट् (त) क्रियते। “क्रियते” क्रिया का कर्तृपद ‘चक्रदत्तेन’ है। (१८) नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी नरदत्तश्चासौ गुरुः नरदत्तगुरुः तेन उद्दिष्टः चरकस्याऽर्थः
नरदत्तगुरूद्दिष्टचरकार्थः तम् अनुगन्तुं शीला इति नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी ।
(१९) सभ्याः सभायां साधुः सभ्यः, इसके प्रथमा बहुवचन या सम्बोधन का यह पद है।
२०) सद्गुरुवाक्सुधास्स्रुतिपरिस्फीतश्रुतीन् सत् चासौ गुरुः सद्गुरुः तस्य वाचः एव सुधा सदुरुवाक्सुधा, ( तस्याः सुतिः, तया परिस्फीताः श्रुतयः येषां ते सद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतयः, तान् सद्गुरुवाक्सुधास्तुति-परिस्फीतश्रुतीन् ।
(२१) अम्भोनिधिः अम्भसां निधिः अम्भोनिधिः (षष्ठी तत्पुरुष)।
(२२) पयोदपयसा :- पयोदस्य पयः पयोदपयः, तेन पयोदपयसा ।
(२३) व्याख्याभासरसप्रकाशनम् व्याख्यायाः आभासः व्याख्याभासः तस्य रसः व्याख्याभासरसः
तस्य प्रकाशनम् व्याख्याभासरसप्रकाशनम् ।
(२४) प्राप्यते :- प्र+आप्+यक् (य) कर्मणि लट् (त) = ‘प्राप्यते’।
(२५) धीयताम् :– घा+यक् (य) कर्मणि लोट्, त (ताम्) = धीयताम् ।
(२६) क्व :– कस्मिन् इति ‘क्व’। यह अव्यय पद है।
(२७) व :- अन्वादेश में युष्मद् शब्द के बहुवचन में निष्पन्न रूप “युष्मान्” के स्थान पर “वः” निष्पन्न होता है।
आयुर्वेददीपिका: – इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभृतिभिः प्रणीतायुर्वेदतन्त्रेष्वतिविस्तरत्वेन संप्रति वर्तमानाल्पायुर्मेधसां पुरुषाणां न सम्यगर्थाधिगमः, तदनधिगमाच्च तद्विहितार्थानामननुष्ठाने’ तथैवोपप्लवो रुजामिति मन्वानः परमकारुणिको ऽत्रभवान ग्निवेशोऽल्पायुर्मेधसामपि सुखोपलम्भार्थं नातिसङ्गेपविस्तरं कायचिकित्साप्रधानमायुर्वेदतन्त्रं प्रणेतुमारब्धवान्। तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सित-कल्पसिद्धिस्थानात्मकेऽभिधातव्ये निखिलतन्त्रप्रधानार्थाभिधायकतया’ श्लोकस्थानमेवाग्रे वक्तव्यममन्यत । वक्ष्यति हि-श्लोकस्थानं समुद्दिष्टं तन्त्रस्यास्य शिरः शुभम्। चतुष्काणां महार्थानां स्थानेऽस्मिन् संग्रहः कृतः” (सू.अ.३०) इति। तत्र च सूत्रस्थानेऽप्युत्पन्नरोगग्रहणे त्वरया रोगोपघातिभेषजाभिधायिचतुष्के ऽभिधातव्ये निखिलतन्त्रबीजभूतहेतुलिङ्गौषधाद्यर्थस्य तथा तन्त्रप्रवृत्त्यङ्गप्र यो जनवदायुर्वेदागमादेरभिधायकं दीर्घञ्जीवितीयमध्यायमभिधातुमारब्धवान् । श्रोतृजनप्रवृत्तिहेत्वभिधेयप्रयोजनसंबन्धोपदर्शकं श्रोतृबुद्धिसमाधानाय व्याख्यानप्रतिज्ञापरमष्टपदमष्टसंख्याया मङ्गलत्वेनादौ सूत्रं निवेशितवान् अथातो दीर्घञ्जीवितीयमध्यायं व्याख्यास्याम इति। यतो निरभिधेये कचटतपादौ साभिधेये वा निष्प्रयोजने काकदन्तपरीक्षादौ प्रेक्षावतां प्रवृत्तिर्नोपलभ्यते, तेनादावभिधेयप्रयोजने अभिधातव्ये। यदुक्तं “अभिधेयफलज्ञानविरहस्तिमितोद्यमाः । श्रोतुमल्पमपि ग्रन्थं नाद्रियन्ते हि साधवः” इति। अभिधेयवत्त्वप्रयोजनवत्त्वनिर्वाहार्थं चाभिधेयशास्त्रयोरभिधानाभिधेयलक्षणः संबन्धः, प्रयोजनशास्त्रयोश्च साध्यसाधनभावलक्षणोऽभिधातव्यः । तत्रेहाभिधेयं हिताहितादिरूपेणायुः। वक्ष्यति हि-‘हिताहितं सुखं दुःखमायुस्तस्य हिताहितम्। मानं च तच्च यत्रोक्तमायुर्वेदः स उच्यते’ (सू.अ.१/४१) इति। अत्र च सर्वाभिधेयावरोधो यथास्थानमेव व्याकरणीयः । प्रयोजनं च धातुसाम्यम् । यथोक्तं “धातुसाम्यक्रिया चोक्ता तन्त्रस्यास्य प्रयोजनम्” – (सू.अ.१) इति। संबन्धो ऽप्यायुः शास्त्रयोरभिधानाभिधेयलक्षणः, प्रयोजनेन च धातुसाम्येन सममस्य शास्त्रस्य हेयोपादेयज्ञानावान्तरव्यापारस्य साध्यसाधनभावलक्षणः । तदेतत्सर्वं दीर्घञ्जीवितीयमित्यनेन पदेन दीर्घञ्जीवितशब्दमधिकृत्य’ कृतप्रयोजनाभिधायक ‘धातुसाम्यक्रिया चोक्ता’ इत्यादिवाक्याभिधायकेन दर्शितं मन्तव्यम्। ननु, प्रयोजनाभिधानं शास्त्रप्रवृत्त्यर्थमिति यदुक्तं तन्न युक्तं, यतो न प्रयोजनाभिधानमात्रेण प्रयोजनवत्तावधारणं, विप्रलम्भकसंसारमोचनप्रतिपादकादिशास्त्रेषु’ प्रयोजनाभिधानेऽपि निष्प्रयोजनत्वदर्शनात् । अथ मन्यसे, आप्तप्रयोजनाभिधानमेतदतोऽत्र यथार्थत्वं; ननु भो कथमयं प्रयोजनाभिधायी आप्तः? तदभिहितशास्त्रस्य यथार्थत्वादिति चेत्, हन्त न यावच्छास्त्रस्य प्रयोजनवत्त्वावधारणं न तावच्छास्त्रप्रवृत्तिः, न यावच्छास्त्रप्रवृत्तिर्न तावच्छास्त्रस्य यथार्थत्वावधारणं, न यावच्छास्त्रस्य यथार्थत्वावधारणं न तावच्छास्त्रस्य कर्तुराप्तत्वमवधार्यते, आप्तत्वानवधृतौ च कुतस्तदभिहितप्रयोजनवत्तावधारणमिति चक्रकमापद्यते; अथ मन्यसे, मा भवतु प्रयोजनवत्तावधारणम्, अर्थरूपप्रयोजनवत्तासन्देह एव प्रवर्तको भविष्यति, कृष्यादावपि हि प्रवृत्तिरर्थसन्देहादेवः नहि तत्र कृषीवलानां फललाभावधारणं विद्यते, अन्तराऽवग्रहादेरपि संभाव्यमानत्वातः नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजनशास्त्रदर्शनाच्छास्त्रत्वमेव प्रयोजनवत्तासन्देहोपदर्शकमस्तु, तथाऽप्यलं प्रयोजनाभिधानेन। नैवं, नहि सामान्येन प्रयोजनसन्देहः प्रयोजनविशेषार्थिनं तथा प्रवर्तयति यथाऽभिप्रेतप्रयोजनविशेषविषयः सन्देहः; अभिप्रेतविशेषविषयश्च सन्देहो न विशेषविषयस्मरणमन्तरा भवति, अतो ये तावदनवधृताग्निवेशप्रामाण्यास्तेषां धातुसाम्यसाधनमिदं शास्त्रं न वेत्येवमाकारविशेषसन्देहोत्पादनार्थं प्रयोजनविशेषाभिधानं; ये पुनः परमर्षेरग्ग्रिवेशस्याद्यत एवावधृतप्रामाण्यास्तेषां तदभिहितप्रयोजनवत्तावधारणेनैव प्रवृत्तिरिति युक्तं प्रयोजनाभिधानम्। प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसन्देहादेव प्रवृत्तिरुपपन्ना, न पुनरनेकसंवत्सरक्लेशबोध्ये शास्त्रे। तदेवं यदुच्यते- ‘प्रयोजनाभिधायिवाक्यप्रवृत्तावपि प्रयोजनमभिधातव्यं, तथा चानवस्था’ इति, तन्निरस्तं भवति। अथेत्यादिसूत्रेऽथशब्दो ब्रह्मादिप्रणीत-तन्त्रेष्वल्पायुर्मेधसामर्थानवधारणस्य, तथाऽभीष्टदेवतानमस्कारशास्त्रकरणार्थगुर्वाज्ञालाभयोरानन्तर्ये प्रयुक्तोऽपि शास्त्रादौ स्वरूपेण मङ्गलं भवत्युदकाहरणप्रवृत्तोदकुम्भदर्शनमिव प्रस्थितानाम्। ग्रन्थादौ मङ्गलसेवा-निरस्तान्तरायाणां ग्रन्थकर्तृश्रोतॄणामविघ्नेनेष्टलाभो भवतीति युक्तं मङ्गलोपादानम्। अथशब्दस्य मङ्गलत्वे स्मृतिः-“ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा। कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकावुभौ” इति।
शास्त्रान्तरे चादौ मङ्गलत्वेन दृष्टोऽयमथशब्दः। यथा “अथ शब्दानुशासनम्” (व्या.म.भा.अ.१ पा. १ आ. १) “अथातो धर्म व्याख्यास्यामः” (वै.अ.१ आ. १ सू.१) इत्यादौ। अभीष्टदेवतानमस्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्ग्रिवेशेन कृत एव, अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वमेव न स्याद् व्याख्यानान्तरायभयश्च; तथा ग्रन्थाविनिवेशितस्यापि नमस्कारस्य प्रत्यवायापहत्वाच्च न ग्रन्थनिवेशनम् । यथा च गुर्वाज्ञालाभानन्तरमेतत्तन्त्रकरणं तथा ‘अथ मैत्रीपरः पुण्यम्’ (सू.अ.१) इत्यादौ स्फुटमेव। ग्रन्थकरणे च गुर्वनुमतिप्रतिपादनेन ग्रन्थस्योपादेयता प्रदर्शिता भवति। यत् पुनः शिष्यप्रश्रानन्तर्यार्थत्वमथशब्दस्य वर्ण्यते, तन्न मां धिनोति, नहि शिष्यान् पुरो व्यवस्थाप्य शास्त्रं क्रियते; श्रोतृबुद्धिस्थीकारे तु शास्त्रकरणं युक्तं, न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति । अतः शब्दोऽधिकारप्रागवध्युपदर्शक;, अत ऊर्ध्वं यदुपदेक्ष्यामो दीर्घञ्जीवितीयं तदिति; यदि वा हेतौ, येन ब्रह्मादिप्रणीतायुर्वेदतन्त्राणामुक्तेन न्यायेनोत्संबन्धत्वमिव, अतो हेतोर्दीर्घञ्जीवितीयं व्याख्यास्याम इति योजनीयम् । दीर्घञ्जीवितीयमित्यत्र दीर्घञ्जीवितशब्दोऽस्मिन्नस्तीति मत्वर्थे “ अध्यायानुवाकयोलुक् च” (पा.अ.५ पा. २ सू. ६०) इति छप्रत्ययः। यदि वा दीर्घञ्जीवितशब्दमधिकृत्य कृतो ग्रन्थोऽध्यायरूपस्तन्त्ररूपो वा, इत्यस्यां विवक्षायाम् “अधिकृत्य कृते ग्रन्थे” (पा.अ.४/३/८७) इत्यधिकारात् “शिशुक्रन्दयमसभ” (पा.अ.४ पा.३. सू. ८८) इत्यादिना छः। एवमन्यत्राप्येवंजातीये मन्तव्यम्। अत्र च सत्यपि शब्दान्तरे दीर्घञ्जीवितशब्देनैव संज्ञा कृता, दीर्घञ्जीवितशब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच्च दीर्घञ्जीवितशब्दोऽस्मिन्नस्ति” इति, ‘दीर्घञ्जीवितशब्दमधिकृत्य कृतो वा, इत्यनया व्युत्पत्त्या दीर्घञ्जीवितीयशब्दस्तन्त्रेऽध्याये च प्रवर्तनीयः। तेन दीर्घञ्जीवितीयं व्याख्यास्याम इत्यनेन तन्त्रं प्रति व्याख्यानप्रतिज्ञा लब्धा भवति, पुनर्दीर्घञ्जीवितीयमिति पदमावर्त्याध्यायपदसमभिव्याहृतमध्यायव्याख्यानप्रतिज्ञां लम्भयति। दृष्टं चावृत्य पदस्य योजनं, यथा अपामार्गतण्डुलीये “गौरवे शिरसः शूले पीनसे” (सू.अ. २) इत्यादौ ‘शिरस’ इति पदं ‘गौरवे’ इत्यनेन युज्यते, आवृत्य ‘शूले’ इत्यनेन च। अतश्च यदुच्यते अकृततन्त्रप्रतिज्ञस्याध्यायप्रतिज्ञा ऊनकायमानेति, तन्निरस्तं भवति । यदि वा अध्यायप्रतिज्ञैवास्तु, तयैव तन्त्रप्रतिज्ञाऽप्यर्थलब्धैव, न ह्यध्यायस्तन्त्रव्यतिरिक्तः तेनावयवव्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव; यथा-अङ्गुलीग्रहणेन देवदत्तोऽपि गृहीतो भवति। अवयवान्तरव्याख्यानप्रतिज्ञा तु न लभ्यते’, तां तु प्रत्यध्यायमेव करिष्यति अध्यायमिति अधिपूर्वादिङः “इङश्च” (पा.अ.२ पा.४ सू. ४७) इति कर्मणि घञा साध्यम्। तेन अधीयते इत्यध्यायः न चानया व्युत्पत्त्या प्रकरणचतुष्कस्थानादिष्वतिप्रसङ्गः, यतो योगरूढेयमध्यायसंज्ञाऽध्यायस्य प्रकरणसमूहविशेष एव दीर्घज्ञ्जीवितीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते। वक्ष्यति हि – “अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता” (सू. अ. ३०) इति; नामसंज्ञा योगरूढसंज्ञेत्यर्थः। यदि वा करणाधिकरणयोरर्थयोः “अध्यायन्यायोद्यावसंहाराश्च” (पा.अ.३ पा. ३, सू.११२) इतिसूत्रेण निपातनादध्यायपदसिद्धिः। अधीयतेऽस्मिन्ननेन वाऽर्थविशेष इत्यध्यायः । अतिप्रसक्तिनिषेधस्तूक्तन्यायः । व्याख्यास्याम इति व्याङ्पूर्वात् ख्यातेर्तृटा साध्यम् चक्षिडजे हि प्रयोगेऽनिच्छतोऽपि व्याख्यातुः क्रियाफलसंबन्धस्य दुर्निवारत्वेन “स्वरितजित” (पा.अ.१ पा. ३ सू. ७२) इत्यादिनाऽऽत्मनेपदं स्यादिति। ‘वि’ इति विशेषे, विशेषाश्च व्याससमासादयः। आङयं क्रियायोगे, ये तु मर्यादायामभिविधौ वा आप्रयोगं मन्यन्ते तेषामभिप्रायं न विद्मः। यतो मर्यादायामभिविधौ चाङः प्रातिपदिकेन योगः स्यात्; यथा “आसमुद्रक्षितीशानां” (र.वं.अ.१) “आपाटलीपुत्रादृष्टो देव” इत्यादौ, इहापि च तथा। क्रियायोगविरहे “उपसर्गाः क्रियायोगे” (पा.अ.१ पा.४ सू.५९) इति नियमादाङ उपसर्गत्वं न स्यात्। ततश्चानुपसर्गेणाड्डा व्यवधानाद् वेरुपसर्गस्य प्रयोगो न स्यात्। येनाव्यवहितः सजातीयव्यवहितो वा धातोरुपसर्गो भवति। व्याङोरुभयोरप्यनुपसर्गत्वे तत्संबन्धोचितभूरिप्रातिपदिक-कल्पनागौरवप्रसङ्गः स्यात्; तस्मात् क्रियायोगित्वमेवाडो न्याय्यम्। अथ, अतः दीर्घ, जीवितीयम्, अध्यायं, वि, आ, ख्यास्याम इत्यष्टपदत्वम् ॥१ ॥
एषणा – यहाँ पर धर्म, अर्थ, काम, मोक्ष के शत्रुभूत (विघ्नभूत, परिपन्थी) रोगों के उपशमन (शान्ति) के लिये, ब्रह्म-प्रभृति (ब्रह्मा, दक्ष प्रजापति, अश्विनी कुमार, इन्द्र, भरद्वाज), पुनर्वसु, अग्निवेश, चरकादि द्वारा रचित (प्रस्तुत) आयुर्वेद-तन्त्रों में अत्यधिक विस्तार से वर्णित होने के कारण इस समय वर्तमान (उपस्थित) अल्पायु और अल्पमेधा वाले पुरुषों को सम्यग् रूप से अर्थ का ज्ञान नहीं हो पाता है और उसका ज्ञान नहीं होने के कारण उनके लिये निर्धारित किये गये लक्ष्यों (उद्देश्यों) को निष्पादित न कर पाने पर (अननुष्ठाने) और रोगों को उपद्रव मानते हुये परम कारुणिक पूज्य अग्निवेश ने अल्पायु वालों तथा अल्पबुद्धि वालों के भी सुखपूर्वक प्राप्ति के लिये (प्रत्यक्ष ज्ञान के लिये) अतिसंक्षेपरहित और अतिविस्ताररहित कायचिकित्साप्रधान आयुर्वेदशास्त्र का प्रणयन करना प्रारम्भ किया। और उसमें श्लोक (सूत्र), निदान, विमान, शारीर, इन्द्रिय, चिकित्सित, कल्प और सिद्धिस्थान के कथनीय होने पर समस्त शास्त्र के मुख्यार्थ के वाचक होने से श्लोक (सूत्र) स्थान को ही पहले अभिधातव्य माना गया। सू.अ. ३० में आचार्य कहेंगे कि श्लोकस्थान को इस तन्त्र का शुभस्वरूप शिर (प्रमुखस्थान) बताया गया है। इस सूत्रस्थान में महान् अर्थ वाले चार चतुष्क का संग्रह किया गया है। और वहाँ सूत्रस्थान में भी समुत्पन्न रोगों के ग्रहण में शीघ्रता से रोग का उपघात करने वाले भेषज को बताने वाले चतुष्क (भेषजचतुष्क) के कथनीय होने पर समग्र शास्त्र के बीजभूत हेतु, लिङ्गौषधादि अर्थ के और शास्त्रप्रवृत्ति के अङ्गभूत-प्रयोजनयुक्त आयुर्वेदागम आदि के बताने वाले “दीर्घञ्जीवितीयम्” अध्याय को कहना प्रारम्भ किया।
श्रोताओं की प्रवृत्ति के हेतु (कारण) कथनीय (अभिधेय) और प्रयोजन के सम्बन्ध के मार्गदर्शक तथा श्रोताओं की बुद्धि के समाधान के लिये व्याख्यान के प्रतिज्ञास्वरूप ८ पद वाले आठ संख्या के मङ्गलस्वरूपक होने से प्रारम्भ में (अष्टपदात्मक) सूत्र को निवेशित किया (ये आठ पद हैं) अथ, अतः, दीर्घम्, जीवितीयम्, अध्यायम्, वि, आ, ख्यास्यामः ।
चूंकि अवाच्य (निरभिधेय) कचटतपादि में अथवा अभिधेय (कथनीय) सहित होने पर भी निष्प्रयोजन होने पर (किसी भी शास्त्र में) कौए के दाँत की परीक्षादि में (निरर्थक रूप से) विद्वानों की (प्रेक्षावतां -बुद्धिमताम्) प्रवृत्ति प्राप्त नहीं होती है। इसलिये पहले अभिधेय तथा प्रयोजन कहने चाहिये।
जो कहा गया है “कथनीय विषय के फल के ज्ञान के अभाव से मन्द हो गया है परिश्रम जिनका ऐसे सज्जन निश्चय ही ग्रन्थ को थोड़ा भी सुनने में आदर नहीं करते हैं।“ अभिधेययुक्तता और प्रयोजनवत्ता के निर्वाह के लिये तथा कथनीय (अभिधेय) एवं शास्त्र का अभिधान और अभिधेय लक्षण वाला सम्बन्ध होता है, प्रयोजन तथा शास्त्र का साध्यसाधनभाव लक्षण कहना चाहिये। (प्रयोजन साध्य होता है तथा शास्त्र साधन होता है)।
यहाँ शास्त्र में हित अहित आदि रूप से आयु अभिधेय (कथनीय) है। आगे कहेंगे कि “हित आयु, अहित आयु, सुख आयु और दुःख आयु तथा उस आयु के लिये जो हितकर तथा अहितकर हैं उनका एवं आयु का मान (प्रमाण) जहाँ कहा गया है उसको “आयुर्वेद” कहा गया है (सू.अ.१-४१)। और यहाँ पर समस्त कथनीय (अभिधेय) के ग्रहण (गुम्फन, बन्धन, ग्रथन) का यथास्थान विवेचन, विश्लेषण करना चाहिये। और प्रयोजन धातुसाम्य है जैसा कि कहा गया है इस आयुर्वेदशास्त्र का प्रयोजन धातुसाम्यक्रिया कहा गया है। (सू.अ.१/५३) इति। आयु तथा शास्त्र का सम्बन्ध भी अभिधानाभिधेयलक्षणपरक (कथन तथा कथ्य स्वरूपपरक) (आयु अभिधेय है और शास्त्र अभिधान है) है। और प्रयोजन-स्वरूपक धातुसाम्य के साथ इस शास्त्र के त्याज्य तथा ग्राह्यज्ञानरूपी अवान्तरव्यापार का साध्य-साधनभावलक्षण है (अर्थात् धातुसाम्यरूपी प्रयोजन साध्य है तथा शास्त्र साधन है)। वह यह सब दीर्घञ्जीवितीयं इस पद से दीर्घञ्जीवितशब्द को अधिकृत करके (सामने रखकर) विहित प्रयोजन की वाचक “धातुसाम्यक्रिया कही गयी है” इत्यादि वाक्यरूपी वाचक के द्वारा दिखाया हुआ मानना चाहिए।
निश्चय ही ‘प्रयोजन का कथन शास्त्रप्रवृत्ति के लिये है’ यह जो कहा गया है वह ठीक नहीं है, क्योंकि प्रयोजन के कथन मात्र से प्रयोजनवत्ता का अवधारण (विनिश्चय) नहीं होता संसार के मोचन (त्याग, मोक्ष) का प्रतिपादन छद्मस्वरूप में करने वाले प्रारम्भिक शास्त्रों में प्रयोजन (उद्देश्य) का कथन होने पर भी निरुद्देश्यता के दर्शन से (प्रयोजन-कथनमात्र प्रयोजनवत्ता का निश्चय नहीं होता) यदि मानते हो कि आप्त महानुभावों के द्वारा इसका (प्रयोजन का) अभिधान (कथन) है, इसलिये यहाँ यथार्थता है, तो अरे यह प्रयोजन का कथन करने वाला आप्त (विश्वस्त पूर्व पुरुष) कैसे है? उसके द्वारा कथित शास्त्र की यथार्थता के कारण यदि ऐसा है तो जब तक शास्त्र की प्रयोजनवत्ता का निर्धारण नहीं होता तब तक शास्त्र की प्रवृत्ति नहीं है, जब तक शास्त्र की प्रवृत्ति नहीं होती तब तक शास्त्र की यथार्थता का निश्चय नहीं होता, जब तक शास्त्र के यथार्थत्व का निर्धारण नहीं होता तब तक शास्त्र के कर्ता की आप्तता का विनिश्चय नहीं होता, और आप्तता के अनवधारण में उसके द्वारा कही गयी प्रयोजनवत्ता का अवधारण कैसे होगा? यह चक्रक दोष उपस्थित (आपन्न) होता है, और यदि मानते हो कि प्रयोजनवत्ता का निश्चय नहीं होवे (तो कोई बात नहीं), अर्थरूप प्रयोजनवत्ता का सन्देह ही प्रवर्तक हो जायेगा। कृषि आदि में भी प्रवृत्ति अर्थ (विषय, फल) के सन्देह से ही होती है, निश्चय ही वहाँ किसानों (कृषकों) के बीच में अनावृष्टि आदि (अन्तरावग्रहादि) की भी सम्भाव्यमानता के कारण फलप्राप्ति का निश्चय नहीं होता है। इस प्रकार प्रयोजन का कथन न होने पर भी निश्चय ही शास्त्र के सोद्देश्य और निरुद्देश्य होने से शास्त्रत्व ही प्रयोजनवत्त्व (असन्देह) का साक्ष्य होवे, फिर भी प्रयोजन का कथन करना व्यर्थ है।
लेकिन ऐसा नहीं है, साधारणतया प्रयोजन का सन्देह प्रयोजनविशेष के चाहने वाले को उस प्रकार प्रवृत्त नहीं करता जिस प्रकार अभीप्सित प्रयोजनविशेष विषय वाला सन्देह, और अभीप्सितविशेषविषय वाला सन्देह विशेषविषय के स्मरण के विना नहीं होता है, इसलिये जो अग्निवेश के प्रामाण्य का निश्चय (धारण) न करने वाले हैं, उनके धातुसाम्य का निष्पादक यह शास्त्र है या नहीं, इस प्रकार की विशेष शङ्का को उत्पन्न करने के लिए प्रयोजनविशेष का कथन है, और जो महर्षि अग्निवेश की प्रारम्भ से ही प्रामाणिकता को धारण किये हुये हैं उनके द्वारा प्रोक्त प्रयोजनयुक्तता के निश्चय से ही प्रवृत्ति होगी, अतः प्रयोजन का कथन करना उपयुक्त (ठीक) है। स्वल्प प्रयत्न से ज्ञेय प्रयोजन के कथन करने वाले वाक्य में तो प्रयोजन सामान्य की शङ्का से ही प्रवृत्ति होना उपयुक्त है, लेकिन अनेक वर्षों के क्लेश से ज्ञेय शास्त्र में (प्रयोजन में शङ्का उत्पन्न होने पर) प्रवृत्ति होना उपयुक्त नहीं है। वह इस प्रकार जो कहा गया है- “प्रयोजन का कथन करने वाले वाक्य से प्रवृत्ति होने पर भी प्रयोजन कहना चाहिये, और उस प्रकार एक अस्थिरता हो जावेगी (जो तर्क का एक दोष है), वह निरस्त (अस्वीकृत, खण्डित) हो जाता है”।
अथ इत्यादि सूत्र में ‘अथ’ शब्द ब्रह्मादिप्रणीत शास्त्रों में कम आयु और कम बुद्धिवालों के अर्थ का निश्चय (अवधारण) नहीं होने के कारण तथा अभीष्ट देवता को नमस्कार एवं शास्त्र करने के लिये गुरु की आज्ञालाभ के अनन्तर भी प्रयुक्त (अथ शब्द) शास्त्र के प्रारम्भ में स्वरूपतः मङ्गलपरक होता है पानी लाने के लिये उद्यमशील के पानी के घड़े को देखने की तरह ही (ग्रन्थाध्ययन में प्रस्थित (प्रवृत्त) व्यक्तियों का मङ्गल (शुभ/कल्याण) होता है)। ग्रन्थ के प्रारम्भ में मङ्गल के सेवन (प्रयुक्त करने) से जिनके विघ्न खण्डित हो गये हैं ऐसे ग्रन्थकर्ताओं तथा श्रोताओं को निर्विघ्नता से अभीष्ट की प्राप्ति होती है, अतः मङ्गल (मङ्गलाचरण या मङ्गलशब्द) का ग्रहण उपयुक्त है। अथ शब्द की कल्याणकारिता में “ओङ्कार तथा अथ शब्द ये दोनों प्राचीनकाल में ब्रह्मा के कण्ठ का भेदन करके निकले हैं। इससे ये दोनों माङ्गलिक (कल्याणकारी) हैं,” यह ‘स्मृति-वाक्य है’। और यह अथ शब्द दूसरे शास्त्रों में भी प्रारम्भ में देखा गया है। जैसे ‘अथ शब्दानुशासनम्’ (व्या.म.भा.अ.१पा.१आ.१) ‘अथातो धर्म व्याख्यास्यामः” (वै.अ.१आ.१सू.१) इत्यादि में (‘अथ’ का प्रयोग है)। शिष्टाचार से प्राप्त अभीष्ट देवता का नमस्कार तो ग्रन्थ के प्रारम्भ में परम शिष्ट अग्निवेश के द्वारा किया ही गया है, अन्यथा शिष्टाचार के अतिक्रमण से शिष्टता नहीं होगी और व्याख्यान में विघ्न का भय भी हो जाएगा और (मंगलाचरण के) विघ्न का विनाशक होने से मंगलाचरण (नमस्कार) का ग्रन्थ में निवेश न करने के कारण ग्रन्थ का निवेशन (निर्माण) ही नहीं होगा। (यहाँ यदि ‘अनपहत्वाच्च’ यह पाठान्तर मान लिया जाय तो ज्यादा उपयुक्त होगा, तब यहाँ भावार्थ होगा, कि ग्रन्थ में निविष्ट नहीं किये जाने के कारण विघ्न का अपनयन नहीं होने से ग्रन्थ का निर्माण भी नहीं होगा)।
और जिस प्रकार गुरु आज्ञा प्राप्ति के बाद इस शास्त्र (लेखन) का निर्माण हुआ है यह ‘अथ मैत्रीपरः पुण्यम्’ (सू.अ.१/३०) इत्यादि में स्पष्ट है। और ग्रन्थ-लेखन में गुरु की आज्ञा के प्रतिपादन से ग्रन्थ की उपयोगिता (उपादेयता) प्रदर्शित होती है।
कुछ लोग यह वर्णित करते हैं कि शिष्य के प्रश्न के बाद के स्वरूप को बताने के लिये ‘अथ शब्द’ कहा गया है (अर्थात् ‘अथ’ शब्द का अर्थ होता है इसके बाद, ‘जब अग्रिवेश ने प्रश्न किया उसके बाद’, अथ अनन्तर) वह मुझे संतुष्ट नहीं करता है। क्योंकि शिष्यों को सामने बैठाकर शास्त्र नहीं किया जाता, श्रोता की बुद्धि में स्थित करने के लिए तो शास्त्र का निर्माण ठीक है, लेकिन प्रश्नकर्ताओं को पहले ही बुद्धिस्थीकृत (परिकल्पित) नहीं किया जाता इसलिये यहाँ’ अथ’ शब्द का अर्थ अनन्तर न करके मङ्गलपरक ही करना चाहिये।‘ अतः’ शब्द अधिकार (प्रसङ्ग, अध्याय, प्रकरण) की पूर्ववर्ती अवधि का सूचक है, यथा –“अत ऊर्ध्वम्’ (आगे) जो उपदेश देंगे ‘दीर्घञ्जीवितीयं’, वह। अथवा (‘अतः’ शब्द) हेतु में है, जिससे ब्रह्मादि के द्वारा प्रणीत आयुर्वेदशास्त्रों का उक्त न्याय (प्रसङ्ग) से असम्बन्धत्व की तरह है। इस कारण से ‘दीर्घञ्जीवितीय की व्याख्या करेंगे’, यह ‘अतः’ के साथ योजनीय है (जोड़ने योग्य है)। ‘दीर्घञ्जीवितीयं’ में दीर्घञ्जीवित शब्द इसमें (दीर्घञ्जीवितीय पद में) है, इसलिये यहाँ मत्वर्थ में ‘अध्यायानुवाकयोलुक् च’ (पा.अ.पा.२ सू. ६०) इससे (पतञ्जलि के मत में पाक्षिक) ‘छ’ प्रत्यय होता है (दीर्घञ्जीवित छ)। अथवा यदि दीर्घञ्जीवित शब्द को ध्यान में रख कर (अधिकृत करके) किया हुआ ग्रन्थ अथवा अध्याय रूप ग्रन्थ अथवा तन्त्ररूप ग्रन्थ इस विवक्षा में “अधिकृत्य कृते ग्रन्थे” (पा.अ.४/३/८७) इस अधिकार से “शिशुक्रन्दयमसभ” (पा.अ.४ पा.३ सू ८८) इत्यादि से ‘छ’ प्रत्यय होता है (दीर्घञ्जीवित छ (ईय) दीर्घञ्जीवितीय) (इस तरह भी इस शब्द की निष्पत्ति होती है।) इस तरह अन्यत्र भी इस प्रकार के शब्दों में मानना चाहिये।
और यहाँ शब्दान्तर (और शब्दों) के होने पर भी “दीर्घञ्जीवित” शब्द के द्वारा “दीर्घञ्जीवित’ शब्द के ही प्रवचन (व्याख्यान) के आदि में निवेश होने से तथा (इस शब्द के) श्रेष्ठ होने से यह संज्ञा की गयी है। (अर्थात् दूसरे शब्दों के इसी सूत्र में या अन्यत्र या अध्याय में होने पर भी उनका उपयोग न करके इसी शब्द का प्रयोग किया गया है)। ‘दीर्घञ्जीवितशब्दोऽस्मिन्नस्ति” इस व्युत्पत्ति से अथवा “दीर्घञ्जीवितशब्दमधिकृत्य कृतो वा” इस व्युत्पत्ति से “दीर्घञ्जीवितीय” शब्द तन्त्र में तथा अध्याय में प्रवृत्त (प्रयुक्त) करना चाहिए (अर्थात् इसका इस तरह अर्थ करना चाहिये)। इससे ‘दीर्घञ्जीवितीयं व्याख्यास्यामः’ इस वाक्य से तन्त्र के प्रति व्याख्या की प्रतिज्ञा प्राप्त होती है, पुनः ‘दीर्घञ्जीवितीयं’ इस पद की (तन्त्र में एवं अध्याय में) आवृत्ति करके अध्याय पद के साथ सहोच्चरित अध्याय के व्याख्यान की प्रतिज्ञा को प्राप्त करवाता है। और पद की वृत्ति करके योजना करना देखा गया है, जैसे अपामार्गतण्डुलीय अध्याय में ‘गौरवे शिरसः शूले पीनसे’ (सू.अ.२/६) इत्यादि में ‘शिरसः’ यह पद ‘गौरवे’ इससे जुडता है और आवृत्ति करके ‘शूले’ इससे भी जुड़ता है। अतः जो कहा जाता है तन्त्र की प्रतिज्ञा किये विना अध्याय की प्रतिज्ञा करना ऊनकायमाना (अल्पशरीरता) है, वह निरस्त हो जाता है। अथवा यदि अध्याय की प्रतिज्ञा ही हो (यह आवश्यक है तो), उसके द्वारा ही तन्त्रप्रतिज्ञा भी अर्थतः प्राप्त ही है. (क्योंकि) तन्त्र को छोडकर अध्याय नहीं होता, इस कारण अवयव (अध्याय) का व्याख्यान होने पर अवयवी तन्त्र की भी व्याख्या होती ही है, जिस प्रकार (देवदत्त की) अंगुली के ग्रहण से देवदत्त का भी ग्रहण हो जाता है। अन्य अवयवों के व्याख्यान की प्रतिज्ञा तो (यहाँ) नहीं मिलती है उसे तो प्रत्येक अध्याय में ही करेंगे। “अध्यायं” यह अधिपूर्वक ‘इङ्’ धातु से ‘इङश्च’ (पा.अ.२.पा. ४.सू.४७) इस सूत्र से कर्म में “घञ्” से साध्य है अर्थात् शब्दसिद्धि हो जाती है। उससे “अधीयते इति अध्यायः” जो अध्ययन किया जाय या जिसका अध्ययन किया जाय उसे अध्याय कहते हैं (यह अध्याय शब्द की व्युत्पत्ति है)। और इस व्युत्पत्ति से प्रकरण, चतुष्क और स्थानादि में ‘अतिप्रसक्ति’ नहीं है, क्योंकि यह अध्याय की अध्यायसंज्ञा योगरूढा है, जो प्रकरणसमूह-विशेष में हो अर्थात् दीर्घञ्जीवितीय आदि लक्षण में पङ्कज शब्द की तरह विद्यमान है न कि योगमात्र से विद्यमान है। आगे कहेंगे “ अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता’ (सू.३०/७०) इस निरुक्ति से यह नामसंज्ञा है अर्थात् योगरूढसंज्ञा है, यह अर्थ है। अथवा यदि करण तथा अधिकरण इन दो अर्थों में “अध्यायन्यायोद्यावसंहाराश्च” (पा.अ.३ पा. ३ सू ११२) इस सूत्र द्वारा निपातन से ‘अध्याय’ पद की सिद्धि होती है।‘ अधीयतेऽस्मिन्ननेन वाऽर्थविशेषः इत्यध्यायः (इसमें अथवा इसके द्वारा जो अर्थ-विशेष पढ़ा जाता है, वह अध्याय है।) अतिप्रसङ्ग-निषेध तो वर्णित न्याय है।
“व्याख्यास्यामः” यह “व्याङ् पूर्वक ख्याञ्” धातु से लृट् लकार द्वारा (वि+आङ्ख्या+लृट्) साधनीय है। निश्चय ही ‘चक्षिङ्’ धातु के प्रयोग में विना चाहते हुये भी व्याख्याता के क्रिया के फल के सम्बन्ध की दुर्निवारता के कारण ‘स्वरितजितः’ (पा.अ. १ पा.३. सू.७२) इत्यादि से आत्मनेपद होगा। ‘वि’ यह ‘विशेष’ इस अर्थ में प्रयुक्त है तथा व्याससमासादि विशेष हैं। यह ‘आङ्’ जो क्रिया के योग में है, और जो लोग ‘आङ्’ के प्रयोग को मर्यादा में या अभिविधि में मानते हैं, उनके अभिप्राय को (हम) नहीं जानते हैं। क्योंकि मर्यादा अर्थ में और अभिविधि अर्थ में आङ् का प्रातिपदिक से योग होगा, जैसे (आसमुद्रक्षितीशानां) (र.वं.अ.१) समुद्रपर्यन्त शासन करने वालों का, “आपाटलीपुत्रादृष्टो देवः” इत्यादौ अर्थात् पाटलिपुत्रपर्यन्त मेघ बरसा है, इत्यादि में। उसी प्रकार यहाँ भी है (ऐसा कुछ लोग मानते हैं)। लेकिन क्रिया के योग के विना “उपसर्गाः क्रियायोगे” (पा.अ.१ पा.४ सू.५९) इस नियम से ‘आङ्” की उपसर्गता (यहाँ) नहीं होगी, और उससे अनुपसर्ग “आङ्” के व्यवधान से “वि” उपसर्ग का प्रयोग नहीं होगा।
क्योंकि धातु के अव्यवहित या सजातीयव्यवहित उपसर्ग होता है। ‘वि’ तथा ‘आङ्’ इन दोनों की भी अनुपसर्गता होने में उसके सम्बन्ध में समभ्यस्त प्रचुर प्रातिपदिक की कल्पना के गौरव का प्रसङ्ग होगा, उससे “आङ्” की क्रियायोगिता ही न्याय्य (युक्तियुक्त) है। ‘अथ, अतः, दीर्घ, जीवितीयम्, अध्यायं, वि, आ, ख्यास्यामः’ यह अष्ट-पदता है ॥१ ॥
टिप्पणी – (१) प्रयोजनम्, प्रयोजनचतुष्टयम् प्र उपसर्ग पूर्वक ‘युजिर् योगे’ धातु से करण में या कर्म में ल्युट् प्रत्यय करने पर “प्र+युज्+अन (ल्युट्)+अम् (सु) = प्रयोजनम् शब्द निष्पन्न होता है। कहा गया है कि विना प्रयोजन के मूर्ख व्यक्ति भी किसी कार्य को करने में प्रवृत्त नहीं होता (प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते)। इसका अर्थ काम में लगाना, ध्येय, लक्ष्य, उद्देश्य, अभिप्राय, आवश्यकता, हेतु है। प्रयोजन द्विविध है – मुख्य और गौण। प्रयोजन शब्द का प्रयोग निम्नांकित पद्यों में दृष्टव्य है –
पुत्रप्रयोजना दाराः, पुत्रःपिण्डप्रयोजनः। हितं प्रयोजनं मित्रं धनं सर्वप्रयोजनम् ।। सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्। यावत् प्रयोजनं नोक्तं, तावत् केन प्रगृह्यते ।। सिद्धार्थ सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्तते। ग्रन्थादौ तेन वक्तव्यः, सम्बन्धः सप्रयोजनः ।।
ग्रन्थ के निर्माण में अनुबन्धचतुष्टय (अधिकारी, विषय, सम्बन्ध एवं प्रयोजन) के उल्लेख का भी ध्यान रखा जाता है। अनुबन्धचतुष्टय को प्रयोजनचतुष्टय के रूप में भी जाना जाता है।‘ धर्म, अर्थ, काम और मोक्ष’ इन चार को चतुर्वर्ग या पुरुषार्थचतुष्टय कहते हैं, जो मानवजीवन के प्रयोजन, उद्देश्य माने जाते हैं। इन्हें भी मानव-जीवन के सन्दर्भ में प्रयोजनचतुष्टय के रूप में अभिहित किया जा सकता है।
(२) अभिधेय– अभिधीयतेऽनेनेति करणे यत्, अथवा अभिधातुं योग्यम् अभिधेयम्। शब्द तीन प्रकार के होते हैं:- १. वाचक या अभिधायक २. लक्षक या लाक्षणिक ३. व्यञ्जक। इनके अनुसार शब्द की शक्ति भी तीन प्रकार की होती है। १. अभिधा २. लक्षणा ३. व्यञ्जना। अभिधाशक्ति से बोध्य अर्थ मुख्यार्थ (अभिधेयार्थ, वाच्यार्थ) कहलाता है। लक्षणाशक्ति से बोध्य अर्थ’ लक्ष्यार्थ’ है तथा व्यञ्जनाशक्ति से बोध्य अर्थ ‘व्यङ्ग्य’ कहलाता है। अभिधेय शब्द त्रिलिङ्गी है जो विशेष्यनिघ्न (विशेष्याधीन) है। अभिधेय शब्द के अर्थ कथनीय, वाच्य, नाम के योग्य, प्रतिपाद्य, अभिधान, नाम आदि हैं।
(३) धिनोति – ‘धिवि प्रीणने’ धातु से ‘वर्तमाने लट् (३/२/१२३) सूत्र से लट् लकार, उसके स्थान में प्रथम पुरुष के एकवचन में ‘तिप्’ प्रत्यय, ‘तिङ्शित्सार्वधातुकम् (३/४/११३) सूत्र से सार्वधातुक संज्ञा, ‘इदितो नुम् धातोः’ (७/१/५८) से नुमागम, अनुबन्धलोप, ‘कर्तरि शप् (३/१/६८) सूत्र से प्राप्त ‘शप्’ को बाधकर ‘धिन्विकृण्व्योर च’ (३/१/८०) सूत्र से वकार के स्थान पर अकारान्तादेश और ‘ठ’ प्रत्यय, ‘धिन+उ+ति’, इस स्थिति में ‘ अतो लोपः’ (६/५/८५) इससे ‘न’ में अवर्ण का लोप, अलोप के स्थानिवद्भाव से लघूपधगुण नहीं हुआ, ‘उ’ प्रत्यय का ‘पित्’ तिप् परे रहते ‘सार्वधातुकार्धधातुकयोः’ गुण, ‘धिनोति’ रूप निष्पन्न होता है। ‘धिनोति’ का अर्थ ‘प्रीणयति’ है।
(४) उत्सम्बन्धत्वम् -उद्गतः सम्बन्ध इति उत्सम्बन्धः। अथवा उत्क्रान्तः सम्बन्धमिति उत्सम्बन्धः । अथवा उत्क्रान्तः सम्बन्धादिति उत्सम्बन्धः । उच्छिन्नः सम्बन्धः उत्सम्बन्धः । उत्सम्बन्धस्य भावः उत्सम्बन्धत्वम्। ‘उत्सम्बन्धत्वम्’ इसके स्थान पर ‘उत्सन्नत्वम्’ यह पाठान्तर उपलब्ध होता है। सन्न शब्द भूतकालिक कृत् प्रत्यय के योग ‘सद्+क्त’ से बनता है, जिसके “बैठा हुआ, आसीन, लेटा हुआ, खिन्न, दुःखी, उदास, म्लान, विश्रान्त, दुर्बल, निःशक्त, कमजोर, क्षीण, छीजा हुआ, नष्ट, लुप्त, स्थिर, गतिहीन, सिकुड़ा हुआ, सटा हुआ, थोड़ा सा, अल्पमात्रा” अर्थ हैं। यहां ‘उत्सम्बन्धत्वं’ का अर्थ है ‘उत्सम्बन्धता’ अर्थात् ऊर्ध्वगत (पहले कहे गये) भावों से सम्बद्धता।
(५) अतिप्रसक्ति – अतिप्रसङ्ग या अतिव्याप्ति ये भी इसके पर्याय हैं, इसे लक्षणदोष में गिना गया है, यथा-अतिव्याप्ति, अव्याप्ति एवं असम्भव ये तीन लक्षणदोष हैं। यहाँ ‘अध्याय’ की व्युत्पत्ति ‘अधीयते इति अध्यायः’ करके यह कहा गया है कि इस व्युत्पत्ति की अतिव्याप्ति नहीं होगी, क्योंकि अतिव्याप्ति मान लेने पर तो यह ‘अधीयते’ स्वरूप प्रकरण में, चतुष्क में और स्थान में भी लागू हो जाएगा, वे भी पढ़े जाते हैं (अधीयते), इसलिये प्रकरण को, चतुष्क को, स्थान को भी अध्याय कहना चाहिये, लेकिन ऐसा नहीं है। क्योंकि यह अध्यायसंज्ञा पङ्कजवत् योगरूढ है, अतः ‘दीर्घञ्जीवितीयम्” अपामार्गतण्डुलीयम् “ आरग्वधीयम्’, आदि के द्वारा प्रारम्भ किये जाने वाले विषय समूह की ही अध्यायसंज्ञा होगी।
(६) आवृत्तिः – ‘आवृत्तिपूर्वक प्रयोग’ किसी शब्द को एक बार कहने पर भी आवश्यक होने पर उस शब्द की पुनः आवृत्ति कर के प्रयोग किया जाता है। यहाँ ‘दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः’ को व्याख्याकार ने दो बार आवृत्तिपरक मानकर व्याख्या की है, एक बार सम्पूर्ण तन्त्र के व्याख्यान के लिये प्रतिज्ञा मानकर ‘दीर्घञ्जीवितीयं व्याख्यास्यामः’ इसे ‘तन्त्रं प्रति व्याख्यानप्रतिज्ञा’ (दीर्घञ्जीवितीयं तन्त्रं व्याख्यास्यामः) कहा है तथा ‘दीर्घञ्जीवितीयम्’ की पुनः आवृत्ति कर के अध्याय के साथ इसे जोड़कर ‘दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः’ मान लिया है। इसे पुष्ट करने हेतु ‘गौरवे शिरसः शूले’ का उदाहरण दिया है जिसमें ‘शिरसः’ का प्रयोग ‘गौरवे’ के साथ करके ‘शिरसः गौरवे’ तथा ‘शूले’ के साथ करके ‘शिरसः शूले’ कर दिया है। वैसे ही यहाँ ‘दीर्घञ्जीवितीयं व्याख्यास्यामः’ से तन्त्र के व्याख्यान की प्रतिज्ञा और ‘दीर्घञ्जीवितीयमध्यायं व्याख्यास्यामः’ से अध्याय के व्याख्यान की प्रतिज्ञा है। यही एक बार कहे गये शब्द का आवृत्तिपूर्वक प्रयोग कहलाता है।
(७) आ, आङ् – चादिगण में ‘आ’ तथा प्रादिगण में ‘आङ्’ इन दो निपातों का पाठ है। ‘आ’ का प्रयोग वाक्य एवं स्मरण अर्थ में होता है। यथा आ एवं नु मन्यसे (अब तू (तुम) ऐसा मानता है), आ एवं किल तत् (हाँ, यह ऐसा ही है)। ‘ आङ्’ का प्रयोग ईषदर्थ, क्रियायोग, मर्यादा एवं अभिविधि में होता है- यथा-ईषदर्थे – ईषदुष्णम् (ओष्णम्), क्रियायोगे क्रिया के योग में ‘प्र’ आदि की उपसर्ग संज्ञा होती है आ + इहि = एहि, यहाँ ‘आ’ की प्रगृह्य संज्ञा नहीं होने से “आद्गुणः” से गुण एकादेश होकर ‘एहि’ रूप बनता है। मर्यादायाम् – जहाँ अवधि का ग्रहण नहीं होता है, वहाँ मर्यादा अर्थ होता है, जैसे आ मृत्योः (मृत्युपर्यन्त) इसका अर्थ है मृत्यु को छोड़कर उससे पूर्व सम्पूर्ण जीवन है। ‘आ योधपुरात्’ इस स्थल पर ‘आ’ मर्यादा अर्थ में है।‘ आ योधपुरात् वृष्टो देवः’ का अर्थ है जोधपुर को छोड़कर जोधपुर तक वर्षा हुई। अभिविधौ जहाँ अवधि का ग्रहण होता है वहाँ अभिविधि अर्थ रहता है। यदि अभिविधि अर्थ में ‘आ’ होगा तो ‘आ योधपुरात् वृष्टो देवः’ का अर्थ होगा जोधपुरसहित जोधपुर में मेघवर्षा हुई। आचार्य चक्रपाणिदत्त का मत है कि “व्याख्यास्यामः” में ‘ आङ्’ का क्रिया से योग है, अतः आ उपसर्ग है और वि भी उपसर्ग है। यहाँ आङ् मर्यादा एवं अभिविधि अर्थ में नहीं है।
इति ह स्माह भगवानात्रेयः||२||
अन्वयः – इति ह भगवान् आत्रेयः आह स्म ॥२ ॥
ऐसा भगवान् आत्रेय ने कहा था ॥२ ॥
आयुर्वेददीपिका – ननु कथमग्निवेशः सकलपदार्थाशेषविशेषज्ञानव्याख्येयमायुर्वेदं व्याख्यास्यति; यतो न तावद्भेषजादीनामशेषविशेषः प्रत्यक्षज्ञेयः, सर्वपदार्थानां [१] विशेषाणां प्रत्यक्षाविषयत्वात्; अन्वयव्यतिरेकाभ्यां तु सर्वपदार्थावधारणं दुष्करमेव [२] , यत एकमेव मधु स्वरूपेण जीवयति, मारयति चोष्णं समघृतं च, कफप्रकृतेर्हितमहितं वातप्रकृतेः, अनूपे सात्म्यमसात्म्यं मरौ, शीते सेव्यमसेव्यं ग्रीष्मे, हितमवृद्धे वृद्धे चाहितम्, अल्पं गुणकरमाबाधकरमत्युपयुक्तम्, आमतां गतमुदरे उपक्रमविरोधित्वादतिविभ्रमकरं, काकमाचीयुक्तं पक्वनिकुचेन च सहोपयुक्तं मरणाय अथवा बलवर्णवीर्यतेजौपघाताय भवति, इत्येवमादि तत्तद्युक्तं तत्तच्छतशः करोति; अत एवैकस्यैव मधुनो रूपं यदाऽनेन प्रकारेण दुरधिगमं, तदाऽत्र कैव कथा निखिलपदार्थाशेषविशेषज्ञानस्य; अजानंश्च व्याचक्षाणः कथमुपादेयवचन इति कृत्वा गुरोराप्तात् प्रतिपन्नं प्रतिपादयिष्याम इति दर्शयन् तामिमां शङ्कां निराचिकीर्षुर्गुरूक्तानुवादरूपतां स्वग्रन्थस्य दर्शयन्नाह- इति ह स्माह भगवानात्रेय इति| अत्र इतिशब्दो वक्ष्यमाणार्थपरामर्शकः, हशब्दोऽवधारणे; यथा- “न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति” इति, अत्र न हेति नैवेत्यर्थः| अत्र ‘स्माह’ इति स्मशब्दप्रयोगेण भूतमात्र एव लिडर्थे “लट् स्मे” (पा.अ.३पा.२सू.११८) इति लट्; न भूतानद्यतनपरोक्षे, आत्रेयोपदेशस्याग्निवेशं प्रत्यपरोक्षत्वात्| यथा च भूतमात्रे लिड् भवति तथाच दर्शयिष्यामः| भगं पूजितं ज्ञानं, तद्वान्; यथोक्तम्- “उत्पत्तिं प्रलयं [३] चैव भूतानामागतिं गतिम्| वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति”; यदि वा भगशब्दः समस्तैश्वर्यमाहात्म्यादिवचनः [४] ; यथोक्तम्- “ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः| ज्ञानवैराग्ययोश्चैव [५] षण्णां भग इतीङ्गनाः” इति| अत्रेरपत्यमात्रेयः; अनेन विशुद्धवंशत्वं दर्शितं भवति| अत्रान्ये वर्णयन्ति- “चतुर्विधं सूत्रं भवति- गुरुसूत्रं, शिष्यसूत्रं, प्रतिसंस्कर्तृसूत्रम्, एकीयसूत्रं चेति”| तत्र गुरुसूत्रं यथा- “नैतद्बुद्धिमता द्रष्टव्यमग्निवेश” (सू.अ.४) इत्यादि, प्रतिसंस्कर्तृसूत्रं यथा- “तमुवाच भगवानात्रेयः” (सू.अ.४) इत्यादि, शिष्यसूत्रं यथा- “नैतानि भगवन् पञ्चकषायशतानि पूर्यन्ते” (सू.अ.४) इत्यादि, एकीयसूत्रं यथा- “कुमारस्य शिरः पूर्वमभिनिर्वर्तत इति कुमारशिरा भरद्वाजः” (शा.अ.६) इत्यादि| तेनाद्यं व्याख्यानप्रतिज्ञासूत्रं गुरोरेव, शिष्यस्याग्निवेशस्य व्याख्यानेऽनधिकारत्वात्| द्वितीयं च सूत्रं प्रतिसंस्कर्तुः| इतिशब्देन च प्रकारवाचिना ‘दीर्घञ्जीवितीयं व्याख्यास्याम’ इति परामृश्यते; तेनाहस्मेति भूतानद्यतनपरोक्ष एव भवति, प्रतिसंस्कर्तारं प्रत्यात्रेयोपदेशस्य परोक्षत्वात्| अनेन च न्यायेन तमुवाच भगवानात्रेय इत्यादावपि लिड्विधिरुपपन्नो भवति| सुश्रुते च “यथोवाच भगवान् धन्वन्तरिः” (सु.सू.अ.१) इति प्रतिसंस्कर्तृसूत्रमिति कृत्वा टीकाकृता “लिड्विधिरुपपादितः’ इति| अत्र ब्रूमः- यत्तावदुक्तं शिष्यस्याग्निवेशस्य व्याख्यानानधिकारादिदं गुरोः सूत्रं; तन्न, नहि जात्या गुरुत्वमस्ति, यतः स एवात्रेयः स्वगुरुमपेक्ष्य शिष्यः, अग्निवेशादीनपेक्ष्य गुरुः; एवमग्निवेशोऽपि ग्रन्थकरणकाले स्वबुद्धिस्थीकृताञ् शिष्यान् प्रति गुरुरिति न कश्चिद्दोषः| यत्पुनर्द्वितीयसूत्रस्य प्रतिसंस्कर्तृसूत्रतया भूतानद्यतनपरोक्षे लिड्विधिरुपपाद्यते, तत्र विचार्यं- किमिदं द्वितीयं सूत्रं पूर्ववाक्यैकतापन्नं न वा? यद्येकवाक्यतापन्नं तदा सुश्रुते- तथा व्याख्यास्यामो यथोवाच धन्वन्तरिरिति योजनीयं, तथाच तथा व्याख्यास्याम इति क्रियैकवाक्यतापन्नमुवाचेति पदं न भिन्नकर्तृकं भवितुमर्हति, तथाच कुतो लिड्विधिः; अथ नैकतापन्नं, तदा गौरश्वः पुरुषो हस्तीतिवन्नार्थसङ्गतिः| किञ्च जतूकर्णादौ प्रतिसंस्कर्तृश्रुतिगन्धोऽपि नास्ति, तत् कथं “नानाश्रुतपरिपूर्णकण्ठः शिष्यो जतूकर्णः प्राञ्जलिरधिगम्योवाच” इत्यादौ लिड्विधिः| अनेन न्यायेन चरकेऽपि प्रतिसंस्कर्तृसूत्रपक्षे लिड्विधिर्नास्ति, तस्माच्चरकेऽग्निवेशः सुश्रुते सुश्रुत एव सूत्राणां प्रणेता, क्वचित् किञ्चिदर्थं स्तोतुं निन्दितुं वाऽऽख्यायिकारूपं पुराकल्पं दर्शयन् किमपि सूत्रं गुरूक्तानुवादरूपतया किमप्येकीयमतानुवादरूपतया लिखति; प्रतिसंस्कर्ता त्वयं ग्रन्थं पूरयति तदाद्यग्रन्थकर्तृतयैव| लिड्विधिस्तु भूतानद्यतनमात्र एव छन्दोविहितो भाषायामपि वर्णनीयः, अन्यथा उवाचेति पदं जतूकर्णादौ न स्यात्; तथा च हरिवंशे धन्योपाख्याने “मामुवाच” इति, तथा “अहमुवाच” इति च न स्यात्; यथा “स मामुवाचाम्बुचरः कूर्मो मानुषवत् स्वयम्| किमाश्चर्यं मयि मुने धन्यश्चाहं कथं विभो” (हरिवंशे, विष्णुपर्व २अ.११०) इति, तथा “स्वयम्भुवचनात् सोऽहं वेदान् वै समुपस्थितः| उवाच चैनांश्चतुरः” इति| यदपि ‘इति ह स्माह’ इत्यत्र इतिशब्देन पूर्वसूत्रं परामृश्यते; तन्न, येन दीर्घञ्जीवितीयादिसूत्रमात्रस्य तदर्थस्य वा गुरूक्तत्वप्रतिपादने सति नैवोत्तरत्राभिधेयाभिधानेन निखिलतन्त्रस्य गुरूक्तानुवादरूपतया करणं श्रोतृश्रद्धाकरणं प्रतिपादितं भवति| भवति तु भावयितुं यथा पुरा व्याख्यातं, तस्मात्तदेव न्याय्यमिति| अग्निवेशस्य व्याख्यास्याम इति बहुवचनमेकस्मिन्नप्यस्मदः प्रयोगाद्बहुवचनप्रयोगस्य साधुत्वात्; साधु हि वदन्ति वक्तारो- ‘वयं करिष्यामः’ इति| भगवानात्रेय इत्यत्र त्वेकवचननिर्देशः कृतः, भगवानित्यनेनैवात्रेयस्य गुरोर्गौरवस्य दर्शितत्वात्||२||एषणा – समस्त पदार्थों के अशेष (समग्र) और विशेष ज्ञान से व्याख्या करने योग्य आयुर्वेद की अग्निवेश किस प्रकार सन्देहरहित व्याख्या करेंगे? क्योंकि उन औषधादि का अशेष विशेष (सम्पूर्ण ज्ञान) प्रत्यक्ष द्वारा ज्ञातव्य नहीं है। सारे पदार्थों के विशेष के प्रत्यक्ष प्रमाण का विषय नहीं होने से। अन्वय एवं व्यतिरेक द्वारा तो सारे पदार्थों का विनिश्चय करना दुष्कर (कठिनता से किया जाने वाले दुश्शक कार्य) ही है, क्योंकि एक ही मधु (माक्षिक) स्वरूपतः जीवित करता है तथा समान मात्रा में घी मिलाकर और गर्म करके लेने पर मारता है। कफ प्रकृति वाले के लिये पथ्य (हित) है और वात प्रकृति वाले के लिये अपथ्य (अहितकारी) है, जलीय प्रदेश में अनुकूल (सात्म्य) और मरु प्रदेश में प्रतिकूल (असात्म्य) है, शीत में सेवनीय है तथा ग्रीष्म में असेवनीय। बालकों, युवकों में पथ्य है और वृद्धों में अपथ्य, थोड़ा प्रयुक्त करने पर गुणकारी है और अधिक उपयोग किया हुआ पीड़ादायक है, उदर में गया हुआ आमता (अजीर्णता) को प्राप्त हो जाता है तो उपक्रम-विरोधी (चिकित्सा-वैपरीत्य) होने से अत्यधिक चित्तविभ्रमकारी होता है। मकोय के साथ और पके हुये बडहल के साथ उपयोग करने पर मरण (मृत्यु) के लिये होता है अथवा बल, वर्ण, वीर्य, तेज के विनाश (रोग) के लिये होता है, इस तरह उन-उन (द्रव्यों) से युक्त नाना प्रकार के उन-उन (परिणामों) को करता है। इसलिये एक मधु का ही रूप जब इस प्रकार दुर्जेय है, तब यहाँ समग्र पदार्थों के अशेष – विशेष के ज्ञान की कथा कैसी होगी? और विना जाने व्याख्यान करता हुआ कैसे उपादेय (ग्राह्य) वचन वाला होगा, यह करके (आप्त स्वरूप) गुरु से प्राप्त ज्ञान का प्रतिपादन करेंगे, यह दर्शाते हुए उस इस शङ्का का निराकरण करने का इच्छुक (शिष्य) अग्निवेश अपने ग्रन्थ को गुरु के द्वारा प्रोक्त की अनुवादरूपता (अनु-पश्चात्, वादता = कथन अर्थात् गुरु के द्वारा कहे गये उपदेश के अनुरूप ही कहे जाते हुये वचन) को दिखाता हुआ कहता है- “इति ह स्माह भगवानात्रेयः इति” इस प्रकार भगवान् आत्रेय ने कहा है। यहाँ इति शब्द वक्ष्यमाण अर्थ का परामर्शक है (अर्थात् आगे जो कहा जा रहा है वैसा ही भगवान् आत्रेय ने कहा था), ‘ह’ शब्द (अवधारण में) निश्चय में है, जिस प्रकार ‘न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति” इति अर्थात् निश्चय ही शरीरयुक्त के प्रिय तथा अप्रिय का विनाश नहीं होता है, यहाँ पर ‘न ह’ इसका नैव (नहीं) यह अर्थ है। यहाँ “स्माह” इसमें स्म शब्द के प्रयोग से भूतमात्र में ही लिडर्थ में “लट् स्मे” (३-२-११८) इससे लट् होता है, न कि भूत अनद्यतन परोक्ष में, क्योंकि अग्निवेश के प्रति आत्रेय के उपदेश अपरोक्ष (प्रत्यक्ष) हैं (परोक्ष नहीं अतः अनद्यतन परोक्ष के रूप में स्माह का प्रयोग नहीं होगा), और जिस प्रकार से भूतमात्र में लिट् होता है, वैसे दिखायेंगे (इसी प्रसङ्ग में आगे लिड्विधि बतायेंगे)। भग पूजित ज्ञान को कहते हैं, उससे युक्त भगवान् है, जिस प्रकार कहा गया है- “प्राणियों की उत्पत्ति तथा विनाश को, गति तथा अगति को, विद्या और अविद्या को जो जानता है, उसे भगवान् कहना चाहिये”। अथवा भग शब्द निखिल ऐश्वर्य माहात्म्य आदि का वाचक है, जिस प्रकार कहा गया है “समग्र ऐश्वर्य का, वीर्य का, यश का, श्री तथा ज्ञान और वैराग्य का इन छः का नाम भग है। (छः का ही भग यह सङ्केत ‘इङ्गनाः’ है)।
अत्रि के अपत्य (सन्तति) आत्रेय हैं, इससे विशुद्धवंशता दर्शित होती है। यहाँ अन्य विद्वान् वर्णन करते हैं (कहते हैं) कि – चतुर्विध सूत्र होता है गुरुसूत्र, शिष्यसूत्र, प्रतिसंस्कर्तृसूत्र और एकीयसूत्र। उनमें गुरुसूत्र, जैसे – “नैतद्बुद्धिमता द्रष्टव्यमग्ग्रिवेश” (सू. अ. ४/२२) ‘हे अग्निवेश। यह बुद्धिमान् द्वारा नहीं देखना चाहिये’ इत्यादि, प्रतिसंस्कर्तृसूत्र, जैसे “तमुवाच भगवानात्रेयः” (सू.अ.४/२२) ‘भगवान् आत्रेय उसे बोले’ इत्यादि, शिष्यसूत्र- जैसे- नैतानि भगवन् पञ्चकषायशतानि पूर्यन्ते (सू.अ.४/२१) “हे भगवन् ! ये पाँच सौ कषाय पूरे नहीं होते हैं” इत्यादि, एकीयसूत्र, यथा- कुमार (शिशु) का शिर पहले उत्पन्न होता है यह कुमारशिरा भरद्वाज का मत है (शा.स्था.अ. ६/२१) इत्यादि। उससे (इसलिये) व्याख्यान का जो प्रारम्भिक प्रतिज्ञा सूत्र है वह शिष्य अग्निवेश की व्याख्यान में अनधिकारता के कारण गुरु का ही सूत्र है। और दूसरा सूत्र प्रतिसंस्कर्ता का है (इति ह स्माह)। प्रकारवाची इति शब्द के द्वारा “दीर्घञ्जीवितीयं” की व्याख्या करेंगे यह परामृष्ट (परामर्शपरक) होता है। उससे प्रतिसंस्कर्ता के प्रति आत्रेय के उपदेश की परोक्षता के कारण “ आह स्म” यह भूत अनद्यतन परोक्ष में ही होता है, इस न्याय के कारण “भगवान् आत्रेय उससे बोले” (च.सू.४/२२) इत्यादि में भी लिङ् का विधान उपपन्न होता है। और सुश्रुत में “यथोवाच भगवान् धन्वन्तरिः” (सु.सू.स्था.अ.१) यह प्रतिसंस्कर्ता का सूत्र है, यह मान कर टीकाकार के द्वारा लिङ् का विधान उपपादित किया गया है” इति। यहाँ कहते हैं कि पूर्व में कहा गया है कि शिष्य अग्निवेश का व्याख्यान में अनधिकार होने से यह गुरुसूत्र है, ऐसा जो कहा गया है वह ठीक नहीं है। क्योंकि जाति से गुरुता नहीं होती है, क्योंकि वही आत्रेय अपने गुरु के प्रति शिष्य है, और अग्निवेशादि के प्रति गुरु है, इसी प्रकार अग्निवेश भी ग्रन्थ रचना के समय अपनी बुद्धि में स्थित किये गये शिष्यों के प्रति गुरु है, अतः (अग्निवेश का भी व्याख्यान में अधिकार मानने में) यहाँ कोई दोष नहीं है। और जो दूसरे सूत्र के लिये प्रतिसंस्कर्ता का सूत्र होने के कारण भूत अनद्यतन परोक्ष में लिट् का विधान उपपादित किया जाता है, वहाँ विचार करना चाहिये कि क्या यह द्वितीय सूत्र पूर्व वाक्य से एकतापन्न है या नहीं? यदि एकवाक्यतापन्न है तब सुश्रुत में “जिस प्रकार धन्वन्तरि ने कहा है उस प्रकार व्याख्या करेंगे” यह जोड़ना चाहिये और “उस प्रकार वैसी व्याख्या करेंगे” यदि ऐसा करें तो इस क्रिया से एकवाक्यतापन्न ‘कहा’ (उवाच) यह पद भिन्नकर्तृक नहीं हो सकता है, और उस प्रकार लिड् विधान कहाँ से होगा ? (अर्थात् नहीं होगा), अब (यह द्वितीय सूत्र प्रथम सूत्र से) एकतापन्न नहीं है यह मानें तब “गौः अश्वः पुरुषो हस्ती” (गाय, घोड़ा, पुरुष, हाथी) इस पद समूह की तरह अर्थसङ्गति नहीं होगी। जैसा कि – जतूकर्णादि में प्रतिसंस्कर्ता की श्रुति (ध्वनि) का लेशमात्र स्वरूप भी नहीं है, “नानाश्रुतपरिपूर्णकण्ठः शिष्यो जतूकर्णः प्राञ्जलिरधिगम्योवाच” इत्यादौ लिड्विधिः “अनेक सुनी हुई ध्वनियों से परिपूर्ण कण्ठवाला शिष्य जतूकर्ण हाथ जोड़कर गुरु के समीप जा कर बोला “ इत्यादि में लिट् का विधान कैसे है? (जब प्रतिसंस्कर्ता का अस्तित्व ही नहीं है फिर भी यहाँ उवाच कह कर लिट् विधान क्यों किया है), इस न्याय से (इसी तरह से) चरक में भी प्रतिसंस्कर्ता के सूत्र के पक्ष में (अर्थात् द्वितीय सूत्र को प्रतिसंस्कर्ता का सूत्र मानकर) लिट् का विधान नहीं किया है। अतः चरक में अग्निवेश और सुश्रुत में सुश्रुत ही सूत्रों के प्रणेता हैं। (इतना अवश्य है कि) कहीं पर किसी अर्थ की प्रशंसा अथवा निन्दा करने के लिये प्राचीन आख्यायिका रूप पुराकल्प को (किसी प्रसङ्ग को) दिखाते हुये किसी भी सूत्र को गुरु द्वारा कहे गये विषय को अनुवाद रूप में (प्रस्तुत करने के लिए लिख देते हैं) तथा किसी सूत्र को एकीयमत के अनुवाद रूप में लिखते हैं, यह प्रतिसंस्कर्ता तो अपने आप को प्रारम्भिक ग्रन्थकर्त्ता की तरह मानकर ही उस ग्रन्थ को पूरा करता है। भूत अनद्यतन मात्र में ही वेदविहित लिट् के विधान का तो लौकिक भाषा में भी वर्णन करना चाहिए। नहीं तो “उवाच” यह पद जतूकर्णादि में नहीं होना चाहिये था, और हरिवंश में धन्योपाख्यान में “मामुवाच” मुझे कहा’ यह तथा “अहमुवाच” “मैंने कहा’ यह नही होना चाहिये। जिस प्रकार हरिवंश में (विष्णुपर्व.-२ अ.११०) “स मामुवाचाम्बुचरः कूर्मो मानुषवत् स्वयम्।“ “किमाश्चर्यं मयि मुने ! धन्यश्चाहं कथं विभो” उस जलचर कच्छप ने स्वयं मनुष्य की तरह मुझे कहा। हे मुने ! मेरे में क्या आश्चर्य, हे विभो और मैं कैसे धन्य हूँ?” उसी प्रकार “स्वयम्भुवचनात् सोऽहं वेदान् वै समुपस्थितः। उवाच चैनांश्चतुरः” इति अर्थात् स्वयम्भू के वचन से उस मैंने उपस्थित होकर इन चार वेदों को कहा। जो भी “इति ह स्माह” यहाँ इति शब्द से पूर्व सूत्र का स्मरण किया जाता है, वह नहीं है, इससे दीर्घञ्जीवितीयादि सूत्रमात्र का अथवा उसके अर्थ का गुरु के द्वारा उक्त है, यह प्रतिपादन होने पर आगे अभिधेय (कहने योग्य, वर्णन करने योग्य) के अभिधान (कहने) से समग्र शास्त्र के गुरु के द्वारा कहे गये के अनुवाद रूप में होने से श्रोताओं का श्रद्धाकरण प्रतिपादित होता है (अर्थात् जो कुछ कहा जा रहा है वह पहले गुरु के द्वारा कहा जा चुका है)। यह भावित करने के लिये होता है, (अतः) जैसा कि पहले व्याख्यात किया गया है इसलिये वही उपयुक्त है (अतः ‘इति’ को वक्ष्यमाण विषय के साथ ही जोड़ना चाहिये)।
अग्निवेश का “व्याख्यास्यामः” इसमें एक में भी बहुवचन का प्रयोग “अस्मद्” शब्द के प्रयोग के कारण है जिसका बहुवचन में प्रयोग उपयुक्त माना जाता है। वक्ता ठीक ही कहते हैं (प्रायः व्याख्यान-कर्ता या वक्ता कहते हैं कि) “ वयं करिष्यामः इति” अर्थात् हम करेंगे। “भगवान् आत्रेयः” इसमें तो एक वचन का निर्देश किया गया है, “भगवान्” इसके (भगवत् शब्द प्रयोग) द्वारा ही गुरु आत्रेय के गौरव को प्रदर्शित कर दिये जाने के कारण (भगवान् में एक वचन ही है) ।।२ ।।
टिप्पणी – (१) व्याचक्षाणः वि+आ+चक्ष्+आन (शानच्)+: (सु) व्याचक्षाणः, इसका अर्थ है –“व्याख्या करता हुआ”। (‘चक्षिङ् व्यक्तायां वाचि’ धातु से बनता है)।
(२) लिड्विधि – संस्कृत में दस लकार बताये गये हैं, लट्, लिट्, लुट्, लृट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लङ् । इनमें पाँचवाँ ‘लेट्’ लकार तो केवल “वैदिक संस्कृत” में प्रयुक्त होता है। यहाँ ‘लिड्विधि’ शब्द से लिट् लकार की विधि अभिप्रेत है। ‘परोक्षे लिट्’ (३/२/११५) सूत्र भूतअनद्यतन परोक्षार्थ वृत्ति धातु से लिट् लकार का विधान करता है। यहाँ परोक्षत्व या परोक्षता धातु के अर्थ का विशेषण है। अतीत रात्रि के अन्तिम प्रहर से आगामी रात्रि के आद्यप्रहर से युक्त दिवस ‘अद्यतन’ कहा जाता है, यह लुङ् सूत्र के भाष्य में कैयट ने दर्शाया है। अद्यतन से भिन्न अनद्यतन होता है। यहाँ परोक्षत्व का अर्थ भी समझना चाहिये। कुछ आचार्य तो सौ वर्ष पूर्वघटित, कुछ हजार वर्ष पूर्व घटित, अन्य विगत दो दिवस में या विगत तीन दिवस में घटित को या कुड्य (दीवार), कट (चटाई) आदि से व्यवहित (अन्तरित) को परोक्ष कहते हैं। परोक्ष के ये विभिन्न अर्थ मानने वालों के पक्ष भाष्य में स्थित हैं। कतिपय आचार्य प्रयोक्ता की इन्द्रियों से अगोचर को परोक्ष मानते हैं। ऐसी स्थिति में भूत अनद्यतन परोक्ष अर्थ की धात्वर्थवृत्ति में लिट् लकार का विधान किया जाता है। यही लिड्विधि है। लिड्विधि के कुछ प्रयोग (च.सू. १/३२-४०) में ‘चक्रुः, श्रावयामासुः, अनुमेनिरे, शुश्रुवुः, मुमुदिरे, ववौ, निपेतुः, विविशुः, लेभिरे दृष्टव्य हैं। ये सभी क्रियापद परोक्षभूतकाल में ‘लिट्’ लकार के प्रथम पुरुष बहुवचन के रूप हैं। यदि ‘स्म’ का प्रयोग हो तो भूतकाल में लट् लकार का प्रयोग होता है – जैसे -आह स्म। जगाम, गच्छति स्म।
३) बलवर्णवीर्यतेजउपघाताय – बलञ्च वर्णश्च वीर्यञ्च तेजश्च एषां द्वन्द्वम्, बलवर्णवीर्यतेजांसि, तेषाम् उपघाताय विनाशाय इति बलवर्णवीर्यतेजउपघाताय । ‘बलवर्णवीर्यतेजउपघाताय’ का अर्थ है “बल, वर्ण, वीर्य और तेज के विनाश के लिए”।
(४) निराचिकीर्षु :- निराकर्तुमिच्छतीति निराचिकीर्षुः ।
(५) इङ्गना – संकेत, समूह में से एक-एक को पृथक् पृथक् करना। यहाँ ऐश्वर्य, वीर्य, यश, श्री, ज्ञान एवं वैराग्य की आदि प्रत्येक की पृथक् पृथक् रूप से ‘भग’ संज्ञा होती है। इससे किसी भी एक से युक्त की भगवान् संज्ञा है।
(६) निकुच – (च.सू.१/२ में चक्रपाणि), लिकुच (च.सू.४/१० हृद्य महाकषाय में चरक), निकुच (च.सू.१७/१३२) निकुच (च.सू. २६/८४) (यह अम्ल है)।
(७) चष्टे – चक्षिङ् धातु से वर्तमान काल लट् लकार के प्रथमपुरुष एक वचन में ‘चष्टे’ यह पद निष्पन्न होता है। यह एक क्रियापद है, जिसका अर्थ है कथन करते हैं। इसके रूप ‘चष्टे, चक्षाते, चक्षते’ इत्यादि होते हैं।
दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत्|
इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम्||३||
अन्वयः – उग्रतपाः भरद्वाजः दीर्घम् जीवितम् अन्विच्छन् अमरेश्वरम् इन्द्रम् शरण्यम् बुद्ध्वा उपागमत् ॥३ ॥
भरद्वाज का इन्द्र के पास गमन दीर्घ जीवन किस प्रकार से हो यह जानने की इच्छा करते हुये उग्र तपस्वी महर्षि भरद्वाज देवताओं के राजा इन्द्र को शरण में गये हुये का हित करने वाला (शरण्य) है ऐसा जानकर उसके पास गये ।। ३ ।।
आयुर्वेददीपिका – ननु यथाऽग्निवेशस्यायुर्वेदस्य दुरधिगमत्वेन प्रत्यक्षतो वाऽन्वयव्यतिरेकाद्वा ज्ञानं न सम्भाव्यते, एवमात्रेयस्यापि कथमायुर्वेदज्ञानं स्यात्, यन्मूलमग्निवेशस्यायुर्वेदज्ञानं समीचीनमुच्यते, इत्याशङ्क्यायुर्वेदस्याविप्लुतागमत्वं दर्शयन्नाह- दीर्घं जीवितमित्यादि| जीवितं शरीरेन्द्रियसत्त्वात्मसंयोगः| तच्च दीर्घमिति दीर्घकालसम्बन्धि, कालशब्दोऽप्यत्र लुप्तनिर्दिष्टो द्रष्टव्यः| यत्तन्त्रशैली चेयमाचार्यस्य [१] यत आदिमध्यान्तलोपान् करोति, ये लुप्ता अपि गम्यन्त एव| यथा “ग्राम्यानूपौदकरसा” (सू.अ.२१) इत्यत्र मांसशब्दो लुप्तः, तथा ‘दग्धविद्ध’ इत्यत्र विषशब्दो लुप्त इत्यादि| अन्विच्छन्निति अनुरूपं दीर्घमिच्छन्| भरद्वाज इति गोत्रनाम| ‘उग्रतपा’ इति विशेषणेन भरद्वाजस्य मानुषस्यापीन्द्राभिगमनशक्तिः, तथा शरण्यत्वप्रतीतिशक्तिश्चोपदर्श्यते; अचिन्त्यो हि तपसां प्रभावो येनागस्त्यो महोदधिमपि चुलुकनिपेयमकरोत्| नच वाच्यमुग्रतपस्त्वेनैव किमित्ययमायुर्वेदमपि न बुध्यते, यतस्तपःप्रभावोऽपि प्रतिनियतविषयत्वान्न सर्वत्र शक्तिमान्, शक्तिश्चास्य कार्योन्नेया; तेन गुरुनिरपेक्षायुर्वेदज्ञानलक्षणकार्यादर्शनान्न तत्तपस्तत्र समर्थमित्यवधारयामः; किंवा गुरुपूर्वक्रमेणैवायुर्वेदज्ञानं फलतीतीन्द्रमुपागमद्भरद्वाजः| अथ कथं ब्रह्मादिष्वायुर्वेदपूर्वगुरुषु विद्यमानेष्विन्द्रमेवायमुपागमत्? युक्तं च प्रधानगुरोरेव श्रवणं, यतः शिष्यपरम्परासञ्चारिणी विद्याऽसम्यग्ग्रहणादिदोषात् पात्रपरम्परासञ्चार्यमाणमधुवत् क्षीणाऽपि सम्भाव्येत; अत आह- बुद्ध्वा शरण्यममरेश्वरमिति| यस्मादयमेवेन्द्रोऽल्पायुः, स एव भयत्रस्तानां यथा शरण्यो रक्षणहितो न तथा ब्रह्मादयः, तेन तमेवोपागमत्| अमरेश्वर इत्यनेन चेन्द्रस्य रक्षणोपयुक्ततां दर्शयति; राजा हि प्रजारक्षणे प्रयत्नातिशयवान् भवति| ननु दीर्घं जीवितमन्विच्छन्नित्यत्र दीर्घस्याव्यवस्थितत्वेन कियत्कालं तद्दीर्घमभिप्रेतं? तत्र युगानुरूपं वर्षशतं, यदुक्तं- “वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले” (वि.अ.३) इति| एतच्च कलिकालादौ परमायुःकालस्य यथा यथा क्षयस्तथाऽऽयुषः क्षयः| यदाह- “संवत्सरशते पूर्णे याति संवत्सरः क्षयम्| देहिनामायुषः काले यत्र यन्मानमिष्यते” (वि.अ.३) इति| एतदनुसारेण पूर्वयुगेष्वायुःप्रकर्षः| यदाह भगवान् व्यासः- “पुरुषाः सर्वसिद्धाश्च चतुर्वर्षशतायुषः| कृते त्रेतादिकेऽप्येवं पादशो ह्रसति क्रमात्” इति| कर्मानुरूपं चायुर्नियतं वा, अनियतं वा भवति| तत्र बलवत्कर्मारब्धं नियतं, यथाऽयमस्मिन् काले म्रियत एव परम्; अबलवत्कर्मारब्धं त्वनियतं, तद्यदा दृष्टं विषादि मारकं प्रत्ययमासादयति तदा सञ्जातबलं मारयति, यदा न प्राप्नोति दृष्टं मारकं कारणं तदा युगानुरूपायुःप्राप्तौ युगप्रभावजर्जरीकृतशरीरं मारयति| अत्र दृष्टान्तश्चाचार्येण दर्शितः “यथा ह्यक्षः स्वगुणोपपन्नो वाह्यमानो यथाकालं स्वप्रमाणक्षयादेवावसानं गच्छति, स एवाक्षोऽतिभाराधिष्ठित” इत्यारभ्य यावत् “अन्तरा व्यसनमापद्यते; तथाऽनियतायुषोऽन्तरा प्राणा अपराधान्निरुध्यन्ते” (वि.अ.३) इत्यन्तेन| यदा त्वनियतायुषो रसायनमाचरन्ति तदा तत्प्रभावाद्युगप्रभावनियतायुर्लङ्घनं भवति| यदाह- “तानि यावन्ति भक्षयेत्| जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः” (चि.अ.१) इत्यादि| न तु बलवत्कर्मनियतस्यायुषो लङ्घनमस्ति, यदाह- “कर्म किञ्चित् क्वचित्काले विपाके नियतं महत्| किञ्चित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते” (वि.अ.३) इति| हन्त यद्येवं तदा सर्वत्र कर्मैव कारणं मरणे जीविते वा तथा व्याधौ व्याध्यपगमे वा, तत् किमनेनायुर्वेदेन कर्मजनितफलानुविधायिना; तथाहि- यत्तावदुच्यते- नियतं कर्म, तत्र तावदायुर्वेदव्यापारो नास्ति, येन नियतेनैव कर्मणा मिलितमपि दृष्टं तत्र विफलीक्रियते; यच्चाबलवत्कर्मारब्धत्वेनानियतमायुरुच्यते तदपि न श्रद्धाधीनं, येनादृष्टशक्तिपराभवेन दृष्टस्य कार्यकारितां दृष्ट्वाऽपि विवादाध्यासिते विषयेऽदृष्टमेव कारणमवधारयामः, दृष्टं त्वदृष्टाकृष्टमेव तत्र भवति| नैवम्, एवं सति सर्वानुष्ठानस्योपरमप्रसङ्गः; किञ्च केवलकर्मवादिनो दृष्टमपवदतोऽदृष्टोत्पत्तिरेव न प्राप्नोति, अदृष्टं हि दृष्टाग्निष्टोमादिजन्यं, दृष्टं च कारणं कर्मवादिनोऽभिमतम्; अथादृष्टकारणं दृष्टमिच्छन्ति हन्त तर्हि तेनैव न्यायेन दहनादीनामपि किमिति शीतापहत्वस्फोटादिजनकत्वादि न स्वीक्रियते; किञ्च केवलकर्मवादिनो दृष्टे कारणे व्याप्तिग्रहणाभावाददृष्टानुमानमेव न स्यात्, तस्माद्दृष्टमदृष्टं च कारणम्| तत्र क्वचिददृष्टं दृष्टेन बाध्यते, क्वचिच्च दृष्टमदृष्टेनेति; तेन यत्र पुरुषे बलवन्नियतमरणकारणमदृष्टं [२] , तत्र जीवितमरणयोरकिञ्चित्करोऽयमायुर्वेदः, किन्तु तत्रापि नियतमरणकालादर्वाग्दुःखजनकव्याधिप्रशमने व्याप्रियत एव यदि व्याधिरपि तस्य नियतकर्मजन्यो न स्यात्; यत्तु कर्मानियतविपाकं भवति तत्प्रति सर्वथा प्रयोजनवदायुर्वेदोपादानम्| यत्तु युगनियतमायुः, तन्नातिबलवता कर्मणा नियमितं; येन रसायनप्रयोगात्तद्बाधनं दृष्टत्वादनुमन्यन्ते, न तु स्वस्थहितातुरहितचिकित्साभ्याम्| अयं च वादः शास्त्रकारेण स्वयमेव प्रपञ्चेन निर्लोचनीय इति नेह प्रतन्यते||३||
एषणा – निश्चय ही कठिनता से जानने योग्य होने के कारण आयुर्वेद का ज्ञान जिस प्रकार से अग्निवेश को प्रत्यक्ष से या अन्वय-व्यतिरेक से सम्भव नहीं है, उसी तरह से आत्रेय को भी आयुर्वेद का ज्ञान कैसे होगा, जिस कारण अग्निवेश द्वारा किया गया आयुर्वेद का ज्ञान समीचीन कहा जाता है। (अर्थात् आत्रेय से ज्ञान लेकर अग्निवेश ने जो ज्ञान दिया वह ठीक है लेकिन आत्रेय के पास यह ज्ञान कैसे आया यह बता रहे हैं) यह आशङ्का करके आयुर्वेद की भी अतिरोहितागमता (यथास्वरूप आगमन) प्रदर्शित करते हुये कहते हैं – “दीर्घजीवितं” इत्यादि । शरीर, इन्द्रिय, मन (सत्त्व) तथा आत्मा का संयोग जीवित कहा जाता है, वह दीर्घ (लम्बा) हो, इसमें ‘दीर्घ’ शब्द दीर्घकाल-सम्बन्धी है, यहाँ काल शब्द भी लुप्तनिर्दिष्ट समझना चाहिये। यह आचार्य की शास्त्र की शैली है जिसमें आदि, मध्य, व अन्त का लोप करते हैं, और जो लुप्त हैं वे भी प्रतीत होते हैं ही (जाने जाते हैं), जैसे “ग्राम्यानूपौदकरसाः” (सू.अ.२१) इसमें मांस शब्द लुप्त है, उसी प्रकार “दग्धविद्ध” इसमें विष शब्द लुप्त है इत्यादि। ‘अन्विच्छन्’ का अर्थ है अनुरूप दीर्घ (लम्बा) चाहता हुआ। भरद्वाज के मनुष्य होते हुये भी इन्द्र के समीप जाने की शक्ति और शरण्यत्व प्रतीति शक्ति (जानने की शक्ति) प्रदर्शित होती है, निश्चय ही तपस्याओं का प्रभाव अचिन्त्य (अचिन्तनीय) है, जिससे (तप के प्रभाव से) अगस्त्य ने महासागर को भी एक चुल्लु में पीने योग्य कर लिया। यहाँ यह नहीं कहना चाहिए कि उग्रतप वाले होने के कारण ही उससे (उग्रतपः परक स्वरूप से) क्या यह आयुर्वेद भी नहीं जाना जाता (अर्थात् उग्रतपा थे तो इन्द्र के पास जाने की क्या आवश्यकता थी उग्रतप से ही आयुर्वेद भी जान लेते), क्योंकि तप का प्रभाव भी विषयों में प्रतिनियत होने से (प्रत्येक विषय में नियत होने से) सब जगह शक्तियुक्त नहीं होता, और इसकी शक्ति कार्य से अनुमेय है, इस कारण गुरु के अभाव में आयुर्वेद के ज्ञानलक्षणात्मक कार्य के अदर्शन से उसमें वह तप समर्थ नहीं है (गुरु का उपदेश कारण है और आयुर्वेद ज्ञानरूपी लक्षण कार्य है) यह हम निश्चय करते हैं (विचार करते हैं, अवधारण रखते हैं), अथवा गुरुपूर्वक्रम (गुरुपरम्परा) से ही आयुर्वेद का ज्ञान फलित होता है, अतः भरद्वाज इन्द्र के पास गये। ब्रह्मादि आयुर्वेद के पूर्व गुरुओं के विद्यमान होने पर भी ये इन्द्र के पास ही कैसे गये? और प्रधान गुरु से ही सुनना ठीक है, क्योंकि शिष्यपरम्परा से सञ्चरणशील विद्या ठीक से ग्रहण नहीं करने आदि दोष से एक पात्र से दूसरे पात्र में सञ्चार्यमाण (डाले जाते हुये) मधु की तरह विद्या की क्षीणता भी सम्भावित होगी। इसलिए कहते हैं कि ‘देवताओं के स्वामी को शरण योग्य जानकर’ इत्यादि। क्योंकि यह इन्द्र (ब्रह्मादि की अपेक्षा) आयु में अल्प है वह ही भय से पीड़ित लोगों का जिस प्रकार से शरण्य है अर्थात् रक्षा करने में समर्थ है, उस प्रकार ब्रह्मा आदि नहीं हैं, इसलिये उसी के पास गये। और’ अमरेश्वर’ इसके (इस सम्बोधन के) द्वारा रक्षा करने में इन्द्र की उपयुक्तता दर्शाते हैं, क्योंकि राजा ही प्रजा की रक्षा में अतिशय प्रयत्न वाला होता है। “दीर्घञ्जीवितमन्विच्छन्” इसमें निश्चय ही दीर्घ की अव्यवस्थितता से (दीर्घ का निश्चित स्वरूप निर्दिष्ट नहीं करने से) कितने समय तक दीर्घ अभिप्रेत है? इस प्रसङ्ग में युगानुरूप १०० वर्ष की आयु दीर्घ शब्द से माननी चाहिये जो कहा गया है (वर्षशतं खलु आयुषः प्रमाणमस्मिन्काले वि. स्था.अ.८/१२२) इस समय निश्चय ही आयु का प्रमाण १०० वर्ष का है और यह कलियुग आदि में जैसे-जैसे परमायु (श्रेष्ठ आयु, कृतयुगकालीन) काल का क्षय हुआ वैसे-वैसे आयु का भी क्षय हुआ। जैसा कि कहते हैं “संवत्सरशते पूर्णे याति संवत्सरः क्षयम्। देहिनामायुषः काले यत्र यन्मानमिष्यते” (वि.स्था. अ. ३/२६) जिस युग (काल) में प्राणियों की आयु का जितना मान अभीष्ट होता है। उस मान के संवत्सरों (वर्षों) का सौवाँ (शततम) भाग व्यतीत होने पर उस (प्राणियों की आयु) में एक वर्ष का क्षय हो जाता है। इसके अनुसार पूर्वयुगों में आयु का प्रकर्ष (उत्तमता, अधिकता) रहा। जैसा कि भगवान् व्यास कहते हैं “पुरुषाः सर्वसिद्धाश्च चतुर्वर्षशतायुषः। कृते त्रेतादिकेऽप्येवं पादशो हसति क्रमात्” इति। और सर्व सिद्धपुरुष चार सौ वर्ष आयु के हुआ करते थे। कृतयुग, त्रेतादिक में भी इस तरह से क्रमशः पादपूर्वक आयु का ह्रास होता है। और कर्म के अनुसार आयु नियत या अनियत होती है। उसमें बलयुक्त (बलवान्) कर्म से आरम्भ हुयी आयु (अर्थात् कर्मानुरूप आयु) नियत है जैसे यह इस काल के बीतने के बाद मरता ही है, और निर्बल कर्म से आरम्भ हुयी आयु तो अनियत है, वह कर्म जब दृष्ट (दिखाई देने वाले) विष (गरल) आदि मारक रूपी कारण को प्राप्त कर लेता है तो बलवान् (कर्म) होकर मार देता है और जब दुष्ट मारक कारण को नहीं प्राप्त करता तब युग के अनुरूप आयु प्राप्त होने पर युग के प्रभाव से जर्जर किये हुये शरीर को मारता है। और यहाँ पर आचार्य ने दृष्टान्त भी प्रदर्शित किया है- “यथा” रथ का धुरा (अक्ष) अपने गुणों से उत्पन्न (युक्त) होने पर वह जब समुचित विधि से चलाया जाता हुआ अपने समय के अनुसार अपने प्रमाण के क्षय होने पर ही (घिस कर) समाप्त होता है और वही धुरा अत्यधिक भार से युक्त होने पर (लादे जाने पर) नष्ट हो जाता है, उसी तरह आयु भी अयथाबलारम्भपूर्वक ऐसे कारण प्राप्त कर समाप्त हो जाती है तो वह मृत्यु अनियत या अकाल मृत्यु कहलाती है। यहाँ “यथा ह्यक्षः…. से लेकर ‘अन्तरा प्राणाः निरुध्यन्ते” तक का सम्पूर्ण प्रसङ्ग लेना चाहिये।
जब अनियत आयु वाले रसायन का सेवन करते हैं तब उसके प्रभाव से युगप्रभाव से नियत आयु का लङ्घन होता है (आयु बढ़ती है)। जो कहते हैं “तानि यावन्ति भक्षयेत्। जीवेद्वर्षसहस्राणि तावन्त्यागतयौवनः” (चि.स्था. अ.१/३/१३) ‘जितने (आँवलों) का व्यक्ति सेवन करता है उतने ही हजार वर्षों तक युवा होकर जीता रहता है” (चि.अ.१/३/१३) इत्यादि। सबल कर्म नियत आयु का तो लङ्घन नहीं है, जैसा कि कहते हैं “कर्म किञ्चित् क्वचित्काले विपाके नियतं महत्। किञ्चित्त्वकालनियतं प्रत्ययैः प्रतिबोध्यते” (वि. स्था. अ. ३/३५)। “कोई महान् (प्रबल) कर्म किसी विपाक में (परिपाक काल फल देने में) निश्चित होता है और किसी कर्म के विपाक का समय निश्चित नहीं होता किन्तु वह (कर्मविपाक) अन्य कारणों से फलप्राप्ति की ओर प्रेरित किया जाता है”। अरे, यदि ऐसा है तब सब जगह कर्म ही मरने अथवा जीने में और व्याधि की उत्पत्ति अथवा व्याधि के अपगम (विनाश) में कारण हो जायेगा, तो कर्मजनित फल के अनुसार काम करने वाले इस आयुर्वेद से क्या लाभ? और भी जो यह कहा जाता है, ‘नियत कर्म’, (लेकिन) उसमें (नियत कर्म में) तो आयुर्वेद का व्यापार (कार्य) नहीं है, जिस नियत कर्म के द्वारा ही मिलित भी दृष्ट (इह जन्म में किया जाने वाला कर्म) उसमें विफल किया जाता है। और जो निर्बल कर्म से आरम्भ होने से अनियत आयु कही जाती है वह भी श्रद्धाश्रित (श्रद्धा पर निर्भर आश्रित) नहीं है। जिस अदृष्ट शक्ति के पराभव से दृष्ट (कर्म) की कार्यकारिता को देख कर भी विवादग्रस्त विषय में अदृष्ट को ही कारण निर्धारित करते हैं, उसमें दृष्ट (दृष्ट कर्म) तो अदृष्टाकृष्ट (दैवाधीन) ही होता है। लेकिन ऐसा नहीं हैं, ऐसा होने पर सारे अनुष्ठान (कर्म) की निवृत्ति का प्रसङ्ग उपस्थित हो जायेगा (क्योंकि जब दृष्ट कर्म भी अदृष्ट से प्रभावित होकर फल देगा तो कोई दृष्ट कर्म करेगा ही क्यों?) और भी दृष्ट की निन्दा करने वाले केवल कर्मवादी व्यक्ति के (अनुसार) तो दृष्ट की उत्पत्ति ही प्राप्त नहीं होती, निश्चय ही अदृष्ट की उत्पत्ति भी दृष्ट होमादि (यज्ञादि) कार्यों से ही होती है। और कर्मवादी दृष्ट को ही कारण मानते हैं। इसलिये अदृष्ट का कारण दृष्ट को चाहते हैं (मानते हैं) तो अहो ! उसी न्याय से (तर्क से) दहन आदि का भी शीतापहत्व स्फोटादिजनकत्वादि स्वीकार क्यों नहीं किये जाते? (अर्थात् दृष्ट अग्नि से शीतापहत्व भी होता है और जलकर स्फोट भी हो जाते हैं यह स्पष्टतः दृष्ट है फिर भी हम क्या इसे अदृष्ट कर्म के कारण जले हैं यह मान लें), और कर्मवादी के दृष्ट कारण में व्याप्ति के ग्रहण के अभाव से अदृष्टानुमान ही न होगा अर्थात् जब वे प्रत्यक्ष को (दृष्ट को) ही मानते हैं तो व्याप्ति मानेंगे ही नहीं और जब व्याप्ति नहीं मानेंगे तो अनुमान भी नहीं मानेंगे तथा जब अनुमान नहीं मानेंगे तो अदृष्ट का अनुमान ही नहीं होगा। इसलिये दृष्ट और अदृष्ट (दोनों ही) कारण हैं। उनमें कहीं अदृष्ट दृष्ट से बाधित होता है और कहीं अदृष्ट से दृष्ट बाधित होता है, उससे जहाँ पुरुष में नियत मरण का कारण बलवान् है और वह अदृष्ट है तो वहाँ जीवित और मरण दोनों में यह आयुर्वेद अकिञ्चित्कर (अर्थहीन) है, किन्तु वहाँ भी नियत मरण काल से पहले दुःखजनक व्याधि के प्रशमन में व्याप्त (संलग्न) होता ही है (पर यह तभी होता है जब) यदि व्याधि भी उसके नियत कर्मजन्य न होवे, (अर्थात् यदि व्याधि भी नियत कर्मजन्य हो तो आयुर्वेद वहाँ भी अकिञ्चित्कर है), (और) जो कर्म का अनियत विपाक (परिणाम) होता है, उसके प्रति तो सब प्रकार से आयुर्वेद का उपादान (ग्रहण, प्रयोग) सप्रयोजन है (क्योंकि अनियत विपाक में जो प्रत्यय (कारण) होते हैं उनका आयुर्वेद निवारण कर देता है), जो युगानुसार नियत आयु है, वह अति बलशाली, कर्म के द्वारा नियमित (नियन्त्रित) नहीं होती क्योंकि रसायन के प्रयोग से उसका बाधन देखा जाने से अनुमान करते हैं, न कि स्वस्थ के हित के लिये और रोगी के हित के लिये की जाने वाली चिकित्साओं के द्वारा (अर्थात् जो युगानुसार आयु का मान है वह बलवान् कर्म से नियन्त्रित नहीं होता क्योंकि युगनियत आयु का बाधन तो रसायन के प्रयोग से हो जाता है अर्थात् जितनी युगनियत आयु है रसायन के प्रयोग से उससे भी अधिक आयु प्राप्त हो जाती है, यह प्राप्ति रसायन प्रयोग से ही होती है, स्वस्थ एवं आतुर के लिये की जाने वाली चिकित्सा से नहीं)। और यह वाद शास्त्रकार के द्वारा स्वयं ही सविस्तार निर्लोचनीय (समीक्षा योग्य) है। अतः यहाँ उसका विस्तार (लेखन) नहीं किया जाता है॥३ ॥
टिप्पणी – (१) ‘कर्मजनितफलानुविधायिना आयुर्वेदेन’ यहाँ आचार्य चक्रपाणि यह प्रश्न उपस्थापित कर रहे हैं कि जब फल की प्राप्ति कर्म के अनुसार ही होनी है तो आयुर्वेद भी उस कर्मफल के अनुरूप ही कार्य करेगा और जब आयुर्वेद भी कर्मफल के अनुसार कार्य करेगा तो ऐसे आयुर्वेद से क्या लाभ?
(२) आयुर्वेद का प्रयोग, सप्रयोजनत्व (किञ्चित्करत्व) पीछे यह प्रश्न उठाया गया है किआयुर्वेद यदि कर्म (दैव) के अनुसार ही कार्य करता है तो उसका कोई प्रयोजन ही नहीं है। लेकिन ऐसा मानने वालों के विपरीत बहुत लम्बे तर्क-वितर्क के साथ चक्रपाणि ने आयुर्वेद को सार्थक सिद्ध कर दिया है। वे निष्कर्ष रूप में कहते हैं कि यदि अदृष्ट कर्म बलवान् है और वह नियत मरण के लिये है तो आयुर्वेद वहाँ अकिञ्चित्कर है, लेकिन उस नियत मरण से पहले यदि दुःखकारक व्याधि उत्पन्न होती है तो उस व्याधि के प्रशमन के लिये तो यह उपयोगी है ही। अतः यह स्पष्ट है कि नियत मृत्यु में भी आयुर्वेद की उपयोगिता है। और अनियत मृत्यु में तो आयुर्वेद सर्वथा उपयोगी है ही, क्योंकि अनियत मृत्यु में कर्म बलवान् कारणों (प्रत्ययों) से प्रभावित होकर अनियत काल में मृत्यु प्राप्त करवा देता है। उन कारणों का निवारण आयुर्वेद के माध्यम से किया जा सकता है। इस तरह से नियत मृत्यु में व्याधिनिवारक के रूप में किञ्चित् सुखकर होने से एवं अनियत मृत्यु में पूर्णतः कारणनिवारक होने से दृष्ट-अदृष्ट दोनों में आयुर्वेद उपयोगी है।
(३) शततमेंऽशे पूर्णे – इसकी विस्तृत व्याख्या च.वि. ३/२१ में की जायेगी।
(४) आयु का प्रमाण – वर्षशतं खल्वायुषः प्रमाणमस्मिन् काले (च.वि.३) को यहाँ उद्धृत किया गया है, पर यह उद्धरण वहाँ इस रूप में वर्तमान में मुद्रित चरक संहिता में नहीं है। च.वि. ८/१२२ में है।
(५) यथा….. अपराधान्निरुध्यन्ते इत्यन्तेन। यह च.वि. ३/३८ का यहाँ टीका में उद्धरण दिया गया है वहां मूल स्थल पर पाठ में अन्तर है। इसमें पाठान्तर को दर्शाया भी नहीं गया है। यद्यपि अर्थ में बल्कि यों कहें कि भावार्थ में कोई विशेष अन्तर तो नहीं आता है पर पाठभेद का उल्लेख किया जाना चाहिये। यहाँ आचार्य चक्रपाणि ने टीका में पूरे सन्दर्भ को उल्लिखित तो नहीं किया पर संकेत यह है कि इसे समझने के लिए विमानस्थान का वह सम्पूर्ण प्रसङ्ग समझना आवश्यक है। उसमें नियत और अनियत आयु का विशेष व्याख्यान स्वयं आचार्य द्वारा ही उपदिष्ट है।
(६) सन्तः (पुं.)– अस् भुवि धातु से वर्तमान अर्थ में लट् लकार से स्थान में ‘शतृ’ प्रत्यय होने पर ‘सत्’ प्रातिपादिक होता है, उसका प्रथमा विभक्ति का बहुवचन है ‘सन्तः’ होता हुआ। अस्+अत् (शतृ) अस् (जस्) (अलोप) सन्तः ।
